________________
विवृति-दीपिकालङ्कता।
जागदीशी पूर्वमतस्यैव सम्यक्तादिति चेन्न,
-'इदानीं महाकालान्यत्वविशिष्टो घटः', 'कालोऽयं महाकालान्यत्वविशिष्टघटवा'नित्यादिप्रतीत्या महाकालस्यापि तत्तत्कालोपाध्यवच्छेदेन महाकालान्यत्वविशिष्टघटवत्त्वात्,
विटतिः घटितलक्षणोक्तरीत्या, पूर्वमतस्यैवेति । गगनादेः कालिकसम्बन्धेन दृत्तिमत्त्वमते कालिकसम्बन्धसामान्ये,-गगनप्रतियोगिकत्व,- महाकालानुयोगिकत्वयोर्द्वयोरेव सवाद्गनाभावोऽपि 'घटवान्महाकालत्वा'दित्यत्र न प्रतियोगिव्यधिकरणोऽतः सम्बन्धर्मिकोभयाभावघटितलक्षणं परित्यज्य प्रतियोगिताधर्मिकोभयाभावघटितलक्षणमभिहितं दीधितिकृता,
-'विशेषणताविशेष'पदस्य महाकालानुयोगिककालिकसम्बन्धपरत्वे तु-तादृशकालिकसम्बन्धे, -महाकालान्यत्वविशिष्टघटत्वावच्छिन्नप्रतियोगिकत्वविरहेणोभयाभावसत्त्वान्महाकालान्यत्वविशिष्टघटाभावस्यैव सम्बन्धर्मिकोभयाभावघटितलक्षणो. क्तरीत्या प्रतियोगिव्यधिकरणत्वसम्भवेनोक्तलक्षणस्यैव निर्दोषतया प्रतियोगिताधर्मिकोभयाभावघटितलक्षणानुसरणस्य निर्बीजत्वापत्तेरिति भावः ।
'नन्वि'त्याद्याशङ्का समाधत्ते-नेति । 'नन्विदानी महाकालान्यत्वविशिष्टो घट' इति प्रतीतेरेतत्कालनिरूपितवृत्तित्वमात्रविषयकतया, तत्तत्कालाभिन्ने महाकालेऽपि तादृशघटस्य वृत्तित्वमानं सिध्यतु, न त्वधिकरणत्वं, तथा च विशिष्टसत्ताया गुणत्तित्वेऽपि,-गुणस्य विशिष्ट सत्ताभावाधिकरणतावत्,-महाकालान्यत्वविशिष्टघटस्य महाकालवृत्तित्वेऽपि,-तस्य तादृशघटाभावाधिकरणत्वे न किमपि बाधकमतस्तत्तत्कालस्य महाकालान्यत्वविशिष्टघटाधिकरणत्वावगाहिनी प्रतीतिं प्रदर्शयति
-कालोऽयमिति । तथा च निरुक्तप्रतीत्या तत्तत्कालाभिन्ने महाकाले, महा. कालान्यत्वविशिष्टघटाधिकरणत्वसिद्धौ तत्र न तदभावः सम्भवतीति भावः, तत्तत्कालोपाध्यवच्छेदेन-महाकालान्यत्वविशिष्टघटाधिकरणकालोपाध्यवच्छेदेन,
दीपिका परे तु--"स्वाश्रयमात्रानुयोगिकसम्बन्धेनाव्याप्यवृत्तिधर्मे स्वव्यापकत्वाभावस्य साध्यतायामेव तात्पर्य, स्वम् = उभयावृत्तिधर्मः । इत्थञ्च तादृशधर्मलाभायैव कालादि-पदं। _ 'महाकालानुयोगिके त्यत्र 'महाकाल'पदमनुगतस्वत्वलाभाय, अत एव तात्पर्यनाम्नि ग्रन्थे 'स्वविषय'पदं स्वरूपेणैव प्रवेश्य व्याप्तिर्वाच्ये ति मथुरानाथेन प्रोक्त"-मित्याहुः ।