________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
१३
तिरिक्तं यत् साध्यवृत्ति घटत्वादिकं तदनवच्छेद्यप्रतियोगिताकस्य हेतुसमा - नाधिकरणाभावस्याप्रसिद्धेरिति नव्याः । हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकतायाः पर्याप्त्यधिकरण भिन्नत्वं साध्यतावच्छेदकस्य वाच्यमिति कश्चित् तन्न, प्रत्येकमुभयत्र पर्य्याप्तिसम्बन्धेनासतोऽवच्छेद
"
विवृतिः
द्रव्यं नेत्यादिभेदीयप्रतियोगितावच्छेदकीभूतद्रव्यत्वादेरपि जातित्वेन जात्यनवच्छिनद्रव्यवानित्याकारकज्ञानीयप्रकारतावच्छेदकतया पारिभाषिकसाध्यतावच्छेदकेतरत्वेन द्रव्यादिरूपसाध्यवृत्तित्वेन च द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताका भावस्य लक्षणाघटकत्वात् । अपिचेति । तथाच घटत्वपटत्वादेः सर्वस्यैव प्रमेयत्वातिरिक्तप्रमेयवृत्तिधर्मतया तदनवच्छिन्नप्रतियोगिताकाभावाप्रसिध्या प्रमेयवान् वाच्यत्वादित्यत्राव्याप्तिरितिभावः ।
अथ पूर्वोपस्थित प्रमेयवत्साध्यकधूमहेतौ घटाद्यभावाऽप्रसिध्याऽव्याप्तिःसम्भवति, तत्रापि घटत्वपटत्वादेः सर्वस्यैव पूर्वोक्तपारिभाषिकप्रमेयभिन्नप्रमेयवद्वृत्तिधर्मतया तदवच्छिन्नाभावस्य लक्षणाघटकत्वादिति प्रमेयसाध्यकवाच्यत्वहेतावव्याप्त्यभिधानमसङ्गतमिति चेदत्र केचित् -- प्रमेयवत्साध्यक धूमहेतावव्याप्तिसम्भवेऽपि कैमुतिकन्यायेनैव प्रमेयवत्साध्यकवाच्यत्वहेतावव्याप्त्यभिधानमित्याहुः । नव्यास्तु साध्यवृत्तिधर्मघट के साध्ये हेत्वधिकरणवृत्तित्वस्य निवेशात् प्रमेयवत्साध्यकधूमहेतुकस्थले घटत्व पटत्वादेः साध्यतावच्छेदकभिन्नधूमाधिकरणवृत्तिप्रमेयar या वर्त्तमानत्वाभावात्तत्र वर्त्तमानस्य महानसीयत्वादेरेव साध्यवृत्तिधर्मतया तदनवच्छिन्नप्रतियोगिताकस्य धूमसमानाधिकरणस्य घटाभावादेर्लक्षणघटकप्रमेयवत्साध्यकधूमहेतावव्याप्तिरतः स्थलान्तरानुसरणमिति वदन्ति "
त्वान्न
तच्चिन्त्यम् ।
ननु त्वधिकरणवृत्तिर्योऽभावस्तव्प्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन यदधिकरणं तद्भिन्नत्वमेव साध्यतावच्छेदके निवेश्यतां तत एव वह्निमान्धूमादित्यत्र महानसीयवह्वयभावमादायान्याप्तिवारणं सम्भवति, महानसीयवह्नयभावप्रतियोगितावच्छेदकतायाः पर्याप्तिसम्बन्धेन वह्नित्व- महानसीयत्वैतदुभयत्र सत्त्वात्तादृशावच्छेदकता पर्याप्त्यधिकरणमहानसीयत्व -- -- वह्नित्वैतदुभय भिन्नत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्त्वादत आह- हेतुसमानाधिकरणाभावेति । कश्चिदित्यस्वर ससूचनाय, अस्वरसं स्वयमेव दर्शयति - तन्नेति । उभयत्र = उभयोर्महानसीयत्व- वह्नित्वयोः, प्रत्येकं = केवले महानसीयत्वे वह्नित्वे च,