________________
सिद्धान्त-लक्षण-जागदीशी।
... जागदीशी निवेश्या, तथा सति ताशप्रतियोगिताशून्यसाध्यसामानाधिकरण्यस्यैव व्याप्तित्वसम्भवे साध्यतावच्छेदकस्य तदनवच्छेदकत्वानुसरणवैयापत्तेः, अपि च प्रमेयवान् वाच्यत्वादित्यदावव्याप्तिः, तथा हि साध्यतावच्छेदका
विवृतिः अथात्र साध्यनिरूपितवृत्तित्वं यदि साध्यतावच्छेदकताघटकसम्बन्धेन, तदा महानसवृत्तित्वविशिष्टवयभावमादाय वह्निमान्धूमादित्यत्राव्याप्तिः, महानसवृत्तित्त्वस्य वह्नौ स्वरूपसम्बन्धेन वर्तमानतया तस्य साध्यतावच्छेदकभिन्नधर्म'पदेन धर्तमशक्यत्वात्, यदि स्वरूपसम्बन्धेन तथात्वमुच्यते, तदा महानसानुयोगिकसंयोगेन वयभावमादाय तथैव वह्निमान्धूमादित्यत्राव्याप्ति :, तादृशसंयोगस्य समवायेनैव वह्नौ वर्तमानतया स्वरूपेण वह्वाववर्तमानत्वात्तस्य साध्यतावच्छेदकभिन्नधर्मत्वाभावात् ।
नच स्वरूप-साध्यतावच्छेदकताघटकसम्बन्धान्यतरसम्बन्धेन तथात्वं विवक्षणीयमिति न कोऽपि दोष इति वाच्यम्, तथासति प्रमेयवान् वाच्यत्वादित्यत्र कालिकेन घटत्ववानास्त्तीत्यभावमादाय लक्षणसमन्वयसम्भवे ने तादृशाभावाप्रसिध्याऽव्याप्त्यभिधानस्यासङ्गतत्वापत्तेरिति चेन्न । प्रतियोगितावच्छेदकताघटकसम्बन्धेन साध्यनिरूपितवृत्तित्वस्य विवक्षितत्वादिति ध्येयम् ।
ताशप्रतियोगिताशून्येति । साध्यतावच्छेदकभिन्नसाध्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताशून्येत्यर्थः । वैयापत्तेरिति । तथाच वह्निमान्धूमादित्यत्र तत्तद्वयक्त्यभावो न लक्षणघटकः, तत्तद्वयक्तित्वादेः साध्यतावच्छेदकभिन्नसाध्यवृत्तिधर्मत्वादिति घटाभावस्यैव लक्षणघटकतया तत्प्रतियोगिताशून्यत्वस्य वह्निरूपसाध्ये सत्त्वालक्षणसमन्वयसम्भवेन तत्तद्वयक्त्यभावमादाय प्रसक्ताया अव्याप्तेर्वारणाय प्रतियोगितानवच्छेदकत्वानुधावनं न कर्त्तव्यमिति भावः ।
नन्वस्तु तादृशप्रतियोगिताशून्यसाध्यसामानाधिकरण्यमेवव्याप्तिाघवात् , तादृशानवच्छेदकत्वानुसरणन्तु परित्याज्यमेवेत्यतो दोषान्तरमाह-अपि चेति । केचित्त जातिमतस्तादात्म्येन साध्यतायां समवायेन सत्त्वहेतौ चालनीन्यायेन द्रव्यं न, गुणो न, कर्म नेत्यादिभेदमादायाव्याप्तिवारणार्थं प्रतियोगितानवच्छेदकत्वानुसरणं कर्त्तव्यं, तथाच तादृशभेदप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदकीभूतायां सत्तारूपजातौ सत्त्वान्नाव्याप्तिरतो दोषान्तरमाह-अपिचेतीत्याहुः, तन्न , प्रमेयवतः साध्यतास्थले साध्यतावच्छेदकप्रमेयभिन्नत्वाप्रसिध्याऽव्याप्तिवारणार्थमवश्यं पूर्वोक्तक्रमेण पारिभाषिकं साध्यतावच्छेदकभिन्नत्वं वक्तव्यं, एवञ्च