________________
विवृति-दीपिकालङ्कता।
जागदीशी –महाकालान्यत्वविशिष्टघटाभाव एव महाकाले प्रतियोगिव्यधिकरणः सुलभ:
-न चात्र 'विशेषणताविशेष'पदेन महाकालनिरूपितविशेषणताया एव विवक्षितत्वात्ताशसम्बन्धेन निरुक्तप्रतियोगिवैयधिकरण्याप्रसिद्ध्यैवोक्ताऽभावस्यापि प्रतियोगिवैयधिकरण्यासम्भव इति वाच्यम्;
विटतिः विशिष्टघटाभावः = स्वरूपेण महाकालभेदाधिकरणनिरूपितकालिकसम्बन्धावच्छिन्नवृत्तितावद्धटाभावः, स च द्रव्यत्वसाध्यकस्थले प्रतियोगिव्यधिकरणः। ___ घटसाध्यकस्थले तु,-महाकालान्यस्वविशिष्टद्रव्यत्वाभाव एव तथा, अन्यथा महाकालान्यत्वविशिष्टघटाभावस्य साध्यतावच्छेदकघटत्व-तदितर-महाकालान्यत्ववैशिष्टयोभयधर्मावच्छिन्नप्रतियोगिताकतया लक्षणाघटकत्वेन,-घटसाध्यकस्थले तस्य प्रतियोगिव्यधिकरणत्वोक्तरसङ्गतत्वापत्तिरित्यस्मद्गरुचरणाः ।
सुलभ इति। तादृशघटस्य महाकालातिरिक्तकाल एव सत्त्वेन,-तोदृशघटा. भावप्रतियोगितावच्छेदकमहाकालान्यत्वविशिष्टघटत्वावच्छिन्नासम्बन्धित्वस्य महा. कालेऽसत्त्वादिति भावः।
ननु-नन्वि'त्यादिग्रन्थघटक विशेषणताविशेष'पदस्य महाकालानुयोगिककालिकसम्बन्धपरत्वमेवोच्यतां, तावतैव महाकालान्यत्वविशिष्टघटाभावो न प्रतियोगिव्यधिकरणः, तदीयप्रतियोगितावच्छेदकीभूतमहाकालान्यत्वविशिष्टघटत्वावच्छिन्नस्य साध्यतावच्छेदकमहाकालानुयोगिककालिकसम्बन्धेनाधिकरणाप्रसिद्धेरिति-कुतः प्रतियोगिव्यधिकरणाभावप्रसिद्धिरित्याशङ्कते-न चेति । 'वाच्य' मिति परेणान्वयः। अत्र = 'नन्वि'त्यादिग्रन्थे,
दीपिका महाकालान्यत्वेति । ननु महाकालान्यत्वविशिष्टघटाऽभावप्रतियोगितायां साध्यतावच्छेदक-तदितरोभयधर्मावच्छिन्नत्वस्य सत्त्वात्तादृशाभावस्य कथं लक्षणघटकत्वं, यदि च महाकालान्यत्ववैशिष्टयं घटत्वविशेषणमुच्यते, तदा घटत्वनिष्ठावच्छेदकताया निरवच्छिन्न स्वाभावेन पुनरपि लक्षणघटकत्वं तस्य न सम्भवतीति चेदत्र के चित्--घटत्वस्य नानात्वेन तैजसघटत्वावच्छिन्नसाध्यकस्थले महाकालाऽन्यत्वविशिष्टपार्थिवघटत्वावच्छिन्नाऽभावस्य, पार्थिवघटत्वावच्छिन्नसाध्यकस्थले तु महाकालान्यत्वविशिष्टतैजसघटत्वावरिछन्नाऽभावस्य लक्षणघटकत्वसम्भव इति कोऽपि दोष-इत्याहुः।