________________
विवृति-दीपिकालङ्कृता ।
दीधितिः तादात्म्येन गोर्व्यतिरेकाच्च सास्नादिव्यतिरेकः - सिध्यति ॥ १६ ॥ एवञ्च संयोगेन गगनादेरपि द्रव्यत्वव्यापकत्वम् । वृत्तिनियामकसंयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्ध
रूपत्वे,
▬▬▬▬▬▬▬▬
१७१
जगदीशी
*गोर्व्यतिरेकादिति । 'सादात्म्येने 'त्यनुषज्यते ॥ १६ ॥
एवश्वेति
। – सामानाधिकरण्यादौ सम्बन्धिनिवेशे चेत्यर्थः । संयोगत्वेन संयोगमात्रस्य प्रतियोगितावच्छेदकसम्बन्धत्वे वृत्त्यनियामक - संयोगस्यापि तत्त्वं सर्वजनसिद्धमतो 'मात्र' पदम् । सम्बन्धरूपत्वे इति । अन्यथा तादृशसम्बन्धावच्छिन्न प्रतियोगिताकाभावाप्रसिद्ध्या गगनादेः पृथिवीत्वादिव्यापकत्वं दुर्घटमेव स्यादिति भावः ।
विद्यतिः
सामानाधिकरण्यादाविति । आदिना - हेत्वधिकरणत्वादिपरिग्रहः । मात्रपदमिति । तथा च 'मात्र' पदेन वृत्यनियामक संयोगेन घटाद्यभावमादाय गगनादेर्द्रव्यत्वव्यापकत्वं सङ्गमनीयमिति सूचितं, अन्यथा संयोगेन घटाद्यभावप्रतियोगितावच्छेदकसंसर्गतायाः संयोगत्वविशिष्टतया वृत्त्यनियामकसंयोगे सत्त्वेऽपि तदीयप्रतियोगितायाः साध्यतावच्छेदकसंसर्गतावच्छेदकतापर्याप्त्यधिकरणवृत्त्यनियामक - संयोगत्वविशिष्ट संयोगानवच्छिन्नतया - तादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धया गगनादेर्द्रव्यत्वव्यापकत्वस्य दुर्घटत्वापत्तिरिति हृदयम् ।
अन्यथेति । वृत्त्यनियामक संयोगस्य प्रतियोगितानवच्छेदकत्व इत्यर्थः । तादृशेति । तथा च वृत्त्यनियामकसंयोगावच्छिन्नाभावानभ्युपगमे, - प्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नासम्बन्धि हेतु सम्बन्धि वृत्यभावनिरूपित साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता घटितप्रथमकल्पोक्तरीत्या व्यापकत्वं गगनादेर्न सम्भवति, साध्यतावच्छेद की भूतष्टस्य नियामकसंयोगावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धे रतस्तत्सम्बन्धावच्छिन्नप्रतियोगित्वं स्वीकृत्यैव तेन सम्बन्धेन घटाद्यभावमादाय गगनादेर्द्रव्यत्वव्यापकत्वं सम्पादनीयमित्याशयः ।
'साध्यतावच्छेदके'त्यादिना प्रकारान्तरेण गगनादेर्व्यापकत्वव्यवस्थापने हेतुमाह