________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः तादात्म्येन गोर्व्यापकत्वग्रहे,-सानादिना तादात्म्येन गौः,-.
जागदीशी -तच्चिन्त्यम् । ["गोत्वत्वाद्यग्रहदशायामित्यस्य', 'गोत्वत्वेनाग्रहो यस्मा दिति व्युत्पत्त्या गोत्वबाधनिश्चयदशायामित्यर्थः, तथा च तदानीमयं गौरित्यनुमित्यर्थ धर्मिणो धर्मव्यापकत्वमवश्यं स्वीकार्यमित्यपि" वदन्ति ।] गौरितिक ।-'सिध्यतीति परेणान्वयः ।
विशतिः तथा च गोतादात्म्यत्वाज्ञानकाले गोतादात्म्ये तादृशव्यापकत्वग्रहस्यासम्भवात् तदा. नीमियं गौरित्यनुमित्युपपत्यथं धर्मिणो गवादेस्तादात्म्येन व्यापकत्वमवश्यमङ्गीकर्तव्यमित्याशयः। ___ अत्र गोतादात्म्यत्वाग्रहकाले गोसाध्यकानुमितेरप्युत्पादो न सम्भवति, केवल हेतुव्यापकत्वज्ञानस्यानुमित्यहेतुतया सास्नादिव्यापकस्य गवादेस्तादात्म्येन सम्बन्धित्वरूपसामानाधिकरण्यज्ञानस्यैवानुमितिहेतुत्वं वाच्यं, तथा च निरुक्तव्याप्तिज्ञानेतादात्म्यत्वेन तादात्म्यस्य भानात् निरुक्तानुमितेः पूर्वमवश्यं तादात्म्यत्वग्रहस्याव. श्यकत्यादित्यस्वरस 'आहुरित्युक्त्या सूचितः।
मतान्तरमाह-गोत्वत्वेति । अग्रहः गोत्वत्वप्रकारकज्ञानविरहः, गोवबाधनिश्चयदशायां 'गोस्वाभाववानय'मित्याकारकभ्रमात्मकनिश्चयदशायाम्, इत्यर्थ इति। तथा च 'गोत्वत्वाद्यग्रह' इत्यस्य 'गोत्वाभाववानय'मित्याकारकबाधनिश्चयपरतया तद्दशायामयं गौरित्यनुमितिर्न गोत्वप्रकारिका भवितुमर्हति, इदन्त्वावच्छिन्नविशेष्यक गोत्वप्रकारकबुद्धौ निरुक्तबाधनिश्चयस्य प्रतिबन्धकत्वादतः तादृशबाधनिश्चयकाले उत्पन्नाया अयं गौरित्यनुमितेस्तादात्म्येन गोविधेयकत्वमेव स्वीकार्यमिति भावः। ___ 'वदन्ती'त्यस्वरससूचनाय-तद्वीजन्तु-निरुक्तेदन्त्वावच्छिन्नविशेष्यकगोस्वाभाव• प्रकारकनिश्चयकालेऽपीदन्त्वावच्छिन्नविशेष्यकतादात्म्येन गोप्रकारकानुमितेरुत्पादो न सम्भवति, अनुभवषलागिन्नप्रकारकज्ञानस्यापि प्रतिबन्धकत्वमभ्युपगन्तव्यं, गो भेदस्य गोत्वाभावात्मकतया गोभेदनिश्चयसत्त्वे यथा गोस्तादात्म्येन ज्ञानं न सम्भवति, तथा धर्मिणि गोत्वाभावनिश्चयसत्त्वेपि धर्मिणि तादात्म्येन गोप्रकारकबुद्धिर्न सम्भवति,-इति ॥१६॥
१[ ] एतदन्तर्गतः पाठो लिखितपुस्तके नास्ति ।