________________
विवृति-दीपिकालङ्कता।
जागदीशी मित्यहेतुत्वादन्यथा तुल्ययुक्त्या शुद्धगोत्वविधेयकानुमिति प्रति निरवच्छिन्नगोत्व [निष्ठ] विशेष्यताकस्य, प्रतियोग्यनधिकरणहेतुमन्निष्ठाभावाप्रतियोगित्वज्ञानस्य,-हेतुत्वा दयं गौरित्यनुमिते!त्वत्वाद्यनुपस्थितावपि गोत्वरूपधर्मसाध्यकत्वस्य दुर्वारत्वापत्तेरिति दिक् । __ प्राश्चस्तु-"गोतादात्म्यस्य सानाव्यापकत्वग्रहादेव गोस्तादात्म्येन सिद्धिसम्भवान्न तदनुरोधेन गोस्तादात्म्येन व्यापकत्वस्वीकारो युक्तः, सम्बन्धगतव्यापकत्वग्रहादेव सम्बन्धिनोऽनुमितेर्मिश्रादिसम्मतत्वादत उक्तं,-गोत्वत्वाद्यग्रहदशायामिति [शि. पृ. १६६.] ।-गोतादात्म्यत्वाद्यग्रहदशायामिति तदर्थ "-इत्याहुः ।
विवृतिः व्यापकतावच्छेदकत्वग्रहस्य, अनुमित्यहेतुत्वादिति । न च'गोटत्ति सास्नादिमन्निष्ठाभावप्रतियोगितावच्छेदक मित्याकारकव्यभिचारज्ञानस्य- तादृशव्यापक. तावच्छेदकत्वज्ञानप्रतिबन्धकतया व्यभिचारग्रहप्रतिबध्यत्वेन निरुक्तज्ञानमप्यनुमितौ. कारणं स्यादिति वाच्यम् । साध्यतावच्छेदकधर्मिकनिरुक्तप्रतियोगितावच्छेदकत्वग्रहस्यैव व्यभिचारज्ञानतया-गोवृत्ति सास्नादिमन्निष्ठाभावप्रतियोगितावच्छेदक'मित्याकारकज्ञानस्य 'व्यभिचारज्ञान'पदेन धमिशक्यत्वादिति भावः।
अन्यथेति । व्यभिचारज्ञानाप्रतिबध्यज्ञानस्याप्यनुमिविहेतुत्व इत्यर्थः । तुल्ययुक्त्येति । तथा च व्यभिचारज्ञानाप्रतिबध्यज्ञानं यद्यनुमितिकारणं स्यात्तदा गोत्वत्वाग्रहकालेप्ययं गौरित्यनुमितिर्गोस्वसाध्यिकाऽपि भवितुमर्हति । 'गोवृत्तिः-सास्नादिमनिष्ठाभावाप्रतियोगी'त्याकारकव्यापकताज्ञाने गोत्वत्वग्रहस्यानपेक्षणादित्ययं गौरित्यनुमितेस्तादात्म्येन गोविधेयकत्वव्यवस्थापनं दुरुपपाद स्यात् ।
प्राञ्चस्त्विति । सास्नाव्यापकत्वग्रहात्-सास्नादिमन्निष्ठाभावाप्रतियोगित्वग्रहात् । तदनुरोधेन अयं गौरित्यनुमित्यनुरोधेन,
ननु सम्बन्धे व्यापकत्वग्रहे सम्बन्धस्यैवानुमितिर्भवतु न तु सम्बन्धिन इत्यत आह-सम्बन्धगतेति।
ननु गोत्वत्वाग्रहकाले 'गोतादात्म्यं, सास्नादिमन्निष्ठाभावाप्रतियोगी'त्याकारकग्रहादियं गौरित्यनुमितिर्गोसाध्यिकैव भविष्यतीति-किमनुरोधेन धर्मिणो व्यापकत्वं -स्वीकार्यमित्यत आह-गोत्वत्वेति। तदर्थः = 'गोत्वत्वाचप्रहदशाया मित्यस्यार्थः ।