________________
९७२
सिद्धान्त-लक्षण-जागदीशो।
दीधितिः साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसम्बन्धित्वाभिधाने चा, -- पृथिवीत्वादिव्यापकत्वमपि,
जागदीशी तादृशसम्बन्धस्य प्रतियोगितानवच्छेदकत्वेऽपि द्वितीयकल्पानुसारेण व्यापकत्वं सम्पादयति, साध्यतावच्छेदकसम्बन्धेनेति । तथा च सम्बन्धान्तरावच्छिन्नघटाद्यभावमादायैव लक्षणसमन्वय इति भावः । 'द्रव्यत्वस्य गगनासंयुक्तविभ्वन्तरे तद्वयभिचाराद्धेत्वन्तरमाह, पृथिवीत्वादीति । ॐव्यापकत्वमपीति ।-'गगनादेरिति पूर्वेणान्वयः । ['ननूत्पत्तिकाले जन्यस्य,-प्रलयकाले नित्यस्य,-पृथिवीमात्रस्य गगना
विटतिः तादृशसम्बन्धस्येति । सत्यनियामकसंयोगस्येत्यर्थः । प्रतियोगितानवच्छेदकत्वेऽपीति । तथा च साध्यतावच्छेदकवृत्त्यनियामकसंयोगावच्छिमप्रतियोगिताकाभावाऽप्रसिया न प्रथमकल्पोक्तरीत्या गगनादेापकत्वमिति भावः।
द्वितीयकल्पानुसारेण='साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिनासम्बन्धि-हेतुसम्बन्धि-सत्यभावनिरूपितस्वप्रतियोगितावच्छेदकसम्बन्धावच्छिअप्रतियोगिताघटित'द्वितीयकल्पानुसारेण, सम्बन्धान्तरावच्छिन्नघटाद्यभावं = समवायाधववच्छिन्नघटाद्यभावम् । लक्षणसमन्वय इति । 'गगनवान् द्रव्यत्वा'दित्यत्र समवायेन घटाभावस्य साध्यतावच्छेदकीभूतवृत्त्यनियामकसंयोगेन स्वप्रतियोगितावच्छेदकघटत्वावच्छिनासम्बन्धि-द्रव्यत्वरूपहेतुसम्बन्धि-घटादिवृत्तितया तदीयसमवायावच्छिन्नप्रतियोगितानवच्छेदकत्वस्य गगनत्वे सत्त्वाद्गगनस्य वृत्त्यनियामक. संयोगेन द्रव्यत्वव्यापकताया अक्षतत्वाल्लक्षणसमन्वय इत्यर्थः ।
ननु तादृशसम्बन्धेन गगनस्य द्रव्यत्वव्यापकत्वसम्भवे पुनस्तस्य पृथिवीत्वादिव्यापकत्वाभिधानमसङ्गतमित्यत आह-द्रव्यत्वस्येति । तथा च द्रव्यत्वस्य गगनासंयुक्त आत्मन्यपि सत्त्वेन तत्र च वृत्त्यनियामकेनापि संयोगेन गगनस्यासत्वात्तादृशसम्बन्धेन गगनसाध्यकद्रव्यत्वहेतोयभिचारितया,-गगनस्य तेन सम्बन्धेन द्रव्यत्वव्यापकत्वं कथमपि न सम्भवतीत्यतः-पृथिवीत्वस्य हेतुत्वमभिहित. मिति तात्पर्यम् । नन्विति । जन्यपृथिव्यां, नित्यपृथिव्याञ्च गगनाभावसत्त्वं प्रदर्शयति-उत्पत्ति१. [ ] एतदन्तर्गतः पाठो काशीमुद्रिते लिखिते च नास्ति ।