________________
विवृति-दीपिकालङ्कृता।
१९५५
दीधितिः सम्बन्धः प्रविष्टस्तेन सम्बन्धेन यो हेतुमान् , तत्र वर्तमानत्वमभावस्य, साध्यस्य च यादृशः सम्बन्धः प्रविष्टस्तत्सम्बन्धावच्छिन्नायाश्च प्रतियोगिताया अनवच्छेदकत्वं बोध्यम् ।
। जागदीशी एवं-द्रव्यत्वसाध्यके घटानुयोगिकसमवायेन सत्त्वादिहेतौ सम. वायमात्रेण हेतुमत्तामादायाऽपीत्यतो-'यत्सम्बन्ध' इत्यपहाय -'यादृशः सम्बन्ध'-इत्युक्तम् । * साध्यस्य चेति * । 'ग्राह्यसामानाधिकरण्ये प्रविष्ट'इति
विरतिः तथा विवक्षणे तु-महानसीयत्व-संयोगत्व-धर्मद्वयावच्छिन्नमहानसीयसंयोगेन वह्वयधिकरणे महानसे, धूमाभावस्य, घटानुयोगिकत्व-समवायत्वधर्मद्वयावच्छिन्नघटानुयोगिकसमवायेन सत्ताधिकरणे घटे द्रव्यत्वाभावस्य चासत्त्वान्न धूमसाध्यकमहानसीयसंयोगेन वह्निहेतौ द्रव्यत्वसाध्यकघटानुयोगिकसमवायेन सत्ताहेता. वप्यव्याप्तिरिति भावः।
याश इत्युक्तमिति । इदमुपलक्षणम् , 'वह्निमान्धूमा'दित्यत्रापि संयोगसमवायान्यतरसम्बन्धेन धूमाधिकरणे धूमावयवे,-संयोगेन वह्वयभावमादायाव्याप्तिः, अतो 'यादृशः सम्बन्धः प्रविष्ट' इत्युक्तमित्यपि बोध्यम् । ___'साध्यतावच्छेदकसंसर्गतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसाध्यतावच्छेदकसंसर्गावच्छिन्नप्रतियोगित्व'प्रवेशप्रयोजनमाह
दीपिका यादृशः सम्बन्ध इत्युक्तमिति। तथा च-हेतुतावच्छेदकसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिहेतुतावच्छेदकावच्छिन्ननिरूपकताकाधिकरणे'त्यादिरत्यिा व्याप्तिलक्षणार्थो बोध्यः, वृत्तित्वञ्च-स्वावच्छेदकसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ।
एवं-साध्यतावच्छेदकसंसर्गतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्स्यनुयोगितावच्छेदकरूपवृत्तिप्रतियोगितानवच्छेदकत्वमपि 'साध्यतावच्छेदके' बोध्यम् , अत्रापि वृत्तित्वं-स्वावच्छेदकसंसर्गतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छे. दकत्वसम्बन्धेन ।
१'तद्वत्तामादायाऽपी'ति कचित्पाठो दृश्यते । . ..