________________
१५४
सिद्धान्त-लक्षण-जागदीशी ।
जागदीशी तदा-परामर्शन साधनस्य, अनुमित्या च साध्यस्य-ग्राह्यं यत् पक्षतावच्छेदकेन सार्द्ध सामानाधिकरण्यं,-तत्र प्रविष्टो यादृशः सम्बन्ध इत्यर्थो बोध्यः।
'धूमवान् वढे'रित्यादौ महानसीयसंयोगेन सद्धेतौ संयोगमात्रेण हेतुमत्तामादायाव्याप्तिः,
वितिः उत्तरमाह,-तदेति। अत्र 'परामर्शेनेति तृतीयार्थोऽभेदः, तस्य च ग्राह्यपदार्थैकदेशे ज्ञानेऽन्वयः, एवमग्रेऽपि, 'साधनस्य'त्यत्र षष्ठयों निरूपितत्वं, अन्वयश्चास्य 'सामानाधिकरण्य'मित्यनेन । 'पक्षतावच्छेदक'पदोत्तरतृतीयाया सामानाधिकरण्यान्वयि निष्टत्वमर्थः, तथाच परामर्शात्मकं यज्ज्ञानं तद्विषयीभूतं यत् पक्षतावच्छेदकादि निष्टं साधननिरूपितं सामानाधिकरण्यं, यच्चानुमित्यात्मकज्ञानविषयीभूतं पक्षतावच्छेदकनिष्टसाध्यनिरूपितं सामानाधिकरण्यमित्यर्थः ।
तत्रेति । सामानाधिकरण्य इत्यर्थः । घटकत्वं सप्तम्यर्थः, तथा च निरुक्तसामानाधिकरण्यघटकीभूतायाः साधनाधिकरणताया, साध्याधिकरणतायाश्चावच्छेदकतया प्रविष्टो यद्रूपावच्छिन्नः संसर्ग-इति पर्यवसितार्थः, 'संयोगेन पर्वतो वह्विव्याप्यधूमवानिति परामर्श संयोगघटितसामानाधिकरण्यसम्बन्धेनैव धर्मिपारतन्त्र्येण धूमादेः पर्वतत्वे भानं, 'संयोगेन पर्वतो वह्निमा'नित्यनुमितावपि संयोगघटितसामाना. धिकरण्यसम्बन्धेनैव धर्मिपारतन्त्र्येण वह्वयादेः पर्वतत्वे भानं, नत्वन्येन सम्बन्धेने.. त्याशयेनेदं । __ 'यः सम्बन्धः प्रविष्ट' इत्यनुक्त्वा-'यादृशः सम्बन्धः-प्रविष्टत्युक्तौहेतुतावच्छेदकसंसर्गतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसंसर्गेणैव हेतुमत्त्वस्य पर्यवसितत्वे प्रयोजनं दृढ़यति
-धूमवान् वर्तरित्यादाविति । तथा च हेतुतावच्छेदकताश्रयसम्बन्धेन हेत्वधिकरणत्वविवक्षणे संयोगेन धूमसाध्यकमहानसीयसंयोगेन वह्विरूपसद्धेतौ केवलसंयोगेन वयधिकरणेऽयोगोलके संयोगेन धूमाभावरूपसाध्याभावस्य सत्त्वादव्याप्तिः। ___ एवं,-समवायेन द्रव्यत्वसाध्यकघटानुयोगिकसमवायेन सत्तारूपसद्धेतौ,केवलसमवायेन सत्ताधिकरणे गुणादौ समवायेन द्रव्यत्वाभावरूपसाध्याभावस्य सत्त्वादव्याप्तिरतः-हेतुतावच्छेदकसंसर्गतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसं.. सर्गेणैव हेत्वधिकरणत्वं विवक्षणीयं ।