________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
"
यदि च येन केनापि सम्बन्धेन साध्य - साधनयोः सामानाधिकरण्यज्ञानादनुमितिः, स्वव्यापकसाध्यसम्बन्धितामात्रं वा व्याप्तिः, व्यापकत्वदले साध्य - साधनयोः सम्बन्धविशेषप्रवेशादेवातिप्रसङ्गभङ्गादिति विभाव्यते,
-
--
१५३
विवृतिः
ननु साध्या सामानाधिकरण्यं न विरोधः, अपि तु साध्यव्यापकीभूताभावप्रतियोगिहेतुस्वरूप एव सः, तस्य चानुमितिविरोधितयैव हेत्वाभासत्वमिति सम्बन्धविशेषनियन्त्रित साध्य सामानाधिकरण्यज्ञानं नानुमितिहेतुः, येन केनापि - सम्बन्धेन तादृशसामाधिकरण्यज्ञानादनुमित्युत्पादादित्याशङ्कते - यदि चेति । सामानाधिकरण्यज्ञानात् हेतुव्यापक साध्य सामानाधिकरण्यात्मकव्याप्तिज्ञानात् । साध्यसम्बन्धमात्रस्य व्याप्तित्वे लाघवादाह - स्वव्यापकेति ॥ स्वं = हेतुः, तद्व्यापकीभूतं यत् — निरुक्तप्रतियोगिव्यधिकरणतद्वन्निष्ठाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकाश्रयीभूतं साध्यं तस्य यः सम्बन्धः, तद्वत्वं हेतो 'व्याप्ति' रिति समुदितार्थः ।
9
मात्रपदेन साध्य सामानाधिकरण्यस्य - सम्बन्धविशेषनियन्त्रितस्य - व्यवच्छेदः, स च सम्बन्धः सामानाधिकरण्यरूपोऽतिरिक्तो वेत्यन्यदेतत् ।
=
नन्वेवं सम्बन्धविशेषानियन्त्रितसामानाधिकरण्यज्ञानस्य निरुक्तसाध्यसम्बन्धिताज्ञानस्य वाऽनुमितिहेतुत्वेऽनुमित्यादौ साध्यादेः संसर्गभाननियामकाभावात्एकसम्बन्धेन सामानाधिकरण्यज्ञानात् सम्बन्धान्तरेणानुमित्यापत्तिः स्यादत आह— व्यापकत्वदल इति । तथा च व्यापकताघटकहेतुमखं येन सम्बन्धेन, तेन सम्बन्धेन हेतुमत्त्वाज्ञानात् — तद्धट की भूतहेत्वधिकरणवृत्त्यभावीयप्रतियोगिता च यत्सम्बन्धावच्छिन्ना तेन सम्बन्धेन साध्यानुमितेः फलतया नोक्तापत्तिरूपातिप्रसङ्ग इति भावः ।
केचित्तु - " ननु समवायेन गोत्वसाध्यकसमवायेनाश्वत्वहेतावतिव्याप्तिः, कालिकेनाश्वत्वाधिकरणे कालिकेन गोत्वस्य सत्त्वेनाश्वत्वव्यापकताया गोत्वे सत्त्वादत आह— व्यापकत्वदल इति । तथा च हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणत्वघटितं, साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगित्वघटितं च व्यापकत्वं वक्तव्यमिति नोक्तातिप्रसङ्ग” – इत्यपि वदन्ति ।
सम्बन्धविशेषप्रवेशादेव = साध्यतावच्छेदक-साधनतावच्छेदकसम्बन्धयोः प्रवे
शादेव ।
अतिप्रसङ्ग भङ्गादिति । निरुक्तरीत्याऽनुमित्यापत्तिरूपातिप्रसङ्गभङ्गादित्यर्थः ।