________________
सिद्धान्त - लक्षण - जागदोशी ।
जगदीशी
चिदभावस्य — केन चिदपि धर्मेण सम्बन्धेन वाऽवच्छिन्नं, व्यवहारबलात्, न तु सर्वेण सम्बन्धेन, धर्मेण वा,
'समवायावच्छिन्नवह्यभावप्रतियोगित्वं संयोगावच्छिन्न' मित्यादिव्य
१५०
वहाराभावात्,
तथा च यदभावीययत्प्रतियोगितावच्छेदकसम्बन्धेन यदभावीययत्प्रतियोगितानिरूपितावच्छेद की भूतधर्मावच्छिन्नासम्बन्धित्वं हेतुमतः, तदुभावीय तत्प्रतियोगितानिरूपितावच्छेदकताशून्यत्वं साध्यतावच्छेद के निवेश्यमित्यदोषः,
----
विवृतिः
त्वमपि । कस्य चिदभावस्य = यत्किञ्चिदभावस्य, केन चिदिति । यत्किञ्चिद्धर्मेणेत्यर्थः, सम्बन्धेनेति । 'केन चि' दित्यनेन सम्बन्धात्, – यत्किञ्चित्सम्बन्धेनेत्यर्थः । सर्वेण धर्मेण = समवेतत्व - ज्ञेयत्वादिना, सर्वेण सम्बन्धेन = समवायेन, संयोगादिना वा । समवायावच्छिन्नवह्नित्वरूपप्रतियोगित्वस्य संयोगानवच्छिन्नत्वे युक्तिमाहसमवायेति ।
ननु तथापि कथमसम्भवादिवारणं, समवेताभाव घटाभावयोः समवेतात्मकप्रतियोगिताकत्वेनैक्यात्, 'घटाद्यभाव' पदेन समवेताद्यभावमादाय तत्प्रतियोगितावच्छेदकसमवेतत्वाद्यवच्छिन्नाधिकरणताया हेतुमति सच्वादत आह- तथा चेति । यदभावीयेति । यत्किञ्चिदभावनिरूपितं यद् यत्किञ्चित्प्रतियोगित्वं तदवच्छेदकसम्बन्धावच्छिन्ना या तादृशयत्किञ्चिदभावनिरूपिततादृशयत्किञ्चित्प्रतियोगितावच्छेदकधर्मावच्छिन्नाधेयता, – तन्निरूपिताधिकरण तावदन्यत्वं हेत्वधिकरणस्य; तादृशतदभावीयतत्प्रतियोगितानिरूपितावच्छेदकत्वाभाववत्साध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति समुदितार्थः एवञ्च 'वह्निमान् धूमादित्यादौ घटाभावीयं यत् संयोगावच्छिन्नघटत्वावच्छिन्नघटाद्यात्मकं प्रतियोगित्वं तदवच्छेदकसंयोगसम्बन्धावच्छिन्ना या घटाभावीयघटाद्यात्मक प्रतियोगिताऽवच्छेद की भूतघटत्वावच्छिन्ना निरूपकता, – तन्निरूपिताधिकरणतावद्भिन्नत्वस्य हेतुमति पर्वतादौ सवेन - तादृशघटाभावीय प्रतियोगितावच्छेदकताया घटत्वनिष्ठाया अभावस्य वह्नित्वरूपसाध्यतावच्छेदके सत्त्वान्नाऽसम्भवो, न वा समवायेन वह्निसाध्यक धूमहेतावतिव्याप्तिः, - 'समवायेन वह्निर्नास्तीत्यभावनिरूपितायाः समवायावच्छिन्नवह्नित्वाद्यात्मक. प्रतियोगिताया अवच्छेदकं यद्वह्नित्वं तदवच्छिन्नस्य वह्नः समवायेनाधिकरणताया हेतुमत्पर्वतादावसत्त्वात्, - समवायावच्छिन्नवह्न्यभावस्य लक्षणघटकत्वादिति ध्येयम् ।
"