________________
२४०
सिद्धान्त-लक्षण-जागदीशी ।
जागदीशी ... न च गुणसामान्याभावस्याभावो द्रव्यत्वमेव, लाघवात्, न तु गुणो, गौरवादतः संयोगप्रतियोगित्वं न गुणसामान्यभावस्येति वाच्यम् । घटादावुत्पत्तिदशायां गुणसामान्यामावस्यैव सत्त्वेन द्रव्यत्वस्य तदभाव. त्वासम्भवात्,
अभावाभावस्य प्रतियोगित्वनियमाच्चेति भावः ।
वितिः
ननु गुणसामान्याभावाभावो न गुणः, तेषामानन्त्येन गौरवात्, लाघवात् गुणसामान्याभावाभावो द्रव्यत्वमेव, तस्य च कपिसंयोगरूपसाध्याभावभिन्नतया कपि. संयोगप्रतियोगित्वं न गुणसामान्याभावे सम्भवतीति कुतोऽव्याप्तिरित्याशङ्कतेन चेति । 'वाच्य'मित्यनेनान्वयः। लाघवादिति । द्रव्यत्वस्य जातित्वेनेत्याशयः। गौरवादिति । गुणानामानन्त्येन गौरवं स्पष्टमेवेत्याशयः । संयोगप्रतियोगित्वं - कपिसंयोगप्रतियोगित्वं । ___समाधत्ते-घटादाविति । तथा च गुणसामान्याभावाभावस्य द्रव्यत्व स्वरूपत्वे "उत्पत्तिकालीनघटो गुणसामान्याभावाभावाभाववा'निति प्रतीत्यपला'पापत्तेः, उत्पत्तिकालेऽपि घटादौ द्रव्यत्त्वस्य सत्त्वात् , अतः गुणसामान्याभावाभावो गुण एव, तस्य चोत्पत्तिकाले घटादावसत्वेन तादृशप्रतीतिः सम्भवत्येवेत्याशय इति केचित् ।
अन्ये तु"-'उत्पत्तिकालीनघटो गुणसामान्याभावाभाववान्' इति प्रतीतिवार'णाय गुणसामान्याभावाभावस्य द्रव्यत्वस्वरूपत्वं न सम्भवति, तथात्वे तस्योत्पत्तिकालदशायामपि घटादौ सत्त्वेन तादृशप्रतीत्यापत्तेदुवारत्वादिस्यपि" वदन्ति ।
ननूत्पत्तिकालीनघटे गुणसामान्याभावाभावाभावो नाङ्गीक्रियत एव, गुणसामान्याभावमात्रस्यैव तत्राभ्युपेयत्वात् ,
एवं-गुणसामान्याभावस्थाव्याप्यत्तित्वे तदभावोऽपि घटादाविष्ट एवातो गुणसामान्याभावाभावस्य द्रव्यत्वस्वरूपत्वेऽपि न क्षतिरित्यत आह-अभावाभावस्येति ।
. प्रतियोगित्वनियमादिति । “अभावाभावत्वमेव वस्तुनिष्ठप्रतियोगित्व". मिति प्रतियोगित्वलक्षणं गुणेऽव्यात, गुणसामान्याभावाभावत्वस्य भवन्मते गुणे विरहात्,__अतिव्याप्तं च द्रव्यत्वे, गुणाभावाभावस्वस्य द्रव्यत्वे सत्त्वात्-अतः गुणाभावाभावो गुणस्वरूप एवेति न्यायसिद्धान्तोऽवसेयः।