________________
विवृति-दीपिकालङ्कता।
दीधितिः साध्याभावानां कपिसंयोगानां गुणानामधिकरणस्यात्मनस्तत्पतियोगितावच्छेदकगुणसामान्याभावत्वावछिन्नानधिकरणत्वात् ।
जागदीशी समवेतसामान्याभावस्य, द्रव्यमात्रसमवेताभावस्य चानधिकरणत्वाद्वक्षत्वादेरपि हेतुतायामव्याप्तिः सम्भवत्येव,__तथाऽपि सत्ता-द्रव्यत्वयोरेव समवेताभाव-द्रव्यमानसमवेता. भावयोरभावत्वं, लाघवात्, न तु कपिसंयोगा[द्यात्मकसमवेतमात्रस्य तथात्वं, गौरवादित्याशयः।
गुणसामान्याभावस्य संयोग[स्वरूपाभाव]प्रतियोगित्वमाविष्कर्तु--'गुणाना'मित्युक्तम्। तत्प्रतियोगिवेति। -कपिसंयोगीयप्रतियोगितावच्छेदकेत्यर्थः ।
विशतिः अनधिकरणत्वादित्यस्य-वृक्षादेरिति पूर्वेणान्वयः ।
समाधत्ते-तथापीति । सत्ता-द्रव्यत्वयोरेवेति । तथा च क्रमेण समवेताभावाभावोऽत्र सत्तास्वरूपः, द्रव्यमानसमवेताभावाभावश्च द्रव्यत्वस्वरूप एवेति भावः।
लाघवादिति। सत्ता द्रव्यस्वयोर्जातित्वेन लाघवादित्यर्थः, तथात्वं = समवेताभावाभावत्वं, द्रव्यमानसमवेताभावाभावत्वं वा, गौरवादिति। समवेतस्य नानावादित्याशयः।
एवञ्च साध्याभावकपिसंयोगस्वरूपत्वं न सत्तारूपसमवेताभावाभावस्य, द्रव्यत्वरूपद्रव्यमानसमवेताभावाभावस्य वेति-न कपिसंयोगरूपसाध्याभावप्रतियोगित्वं समवेताभावादौ सम्भवति, अतो गुणाभावादेरेव तादृशकपिसंयोगप्रतियोगितया तदधिकरणत्वस्योत्पत्तिकालावच्छेदेन वृक्षादौ सत्त्वात् साध्याभावो न लक्षणघटकः, अतो वृक्षत्वहेतुं परित्यज्यात्मत्वस्य हेतुत्वमभिहितमिति तात्पर्यम् ।
गुणानामित्युक्ति समर्थयते-गुणसामान्याभावस्येति । संयोगस्वरूपाभावप्रतियोगित्वं = कपिसंयोगरूपसाध्याभावप्रतियोगित्वं, गुणानामिति । तथा च साध्याभावकपिसंयोगस्वरूपत्वं यदि गुणस्वरूपाभावस्य सम्भवति,-तदैव कपिसंयो. गरूपाभावप्रतियोगितावच्छेदकत्वमपि गुणसामान्याभावत्वस्य सम्भवतीति भावः । कपिसंयोगीयेति । साध्याभाव कपिसंयोग-निरूपितप्रतियोगितावच्छेदकेत्यर्थः ।