________________
सिद्धान्त-लक्षण-जागदोशी।
दीधितिः --आत्मत्वा'दित्यादावव्याप्तिः,
जागदीशी
- वृक्षादावुत्पत्तिकालावच्छेदेन गुणसामान्याभावसत्त्वाद् वृक्षत्वादिक हेतुं परित्यज्यात्मत्वं हेतुरुक्तः ।। ___ यद्यपि-वृक्षादेः स्वसमवेतकपिसंयोगसामान्यस्वरूपाभावप्रतियोगिनः
विवृतिः वृक्षत्वेऽप्यव्याप्तिसम्भवे आत्मत्वस्य हेतुत्वाभिधानमसङ्गतमत आह,-वृक्षादावुत्पत्तीति।
गुणसामान्याभावेति । तथा च वृक्षत्वस्य हेतुत्वेऽव्याप्तिरेव न सम्भवति, तदधिकरणे वृक्षे कपिसंयोगरूपसाध्याभाव-गुणस्वरूपाभाव-प्रतियोगितावच्छेदकगुणाभावत्वावच्छिन्नस्योत्पत्तिकालावच्छेदेनाधिकरणत्वस्य सत्त्वात् साध्याभावस्य कपिसंयोगस्य लक्षणाघटकत्वात् ।
ननु वृक्षत्वस्यापि हेतुत्वेऽव्याप्तिः सम्भवति, वृक्षत्वाधिकरणे वृक्षे कपिसंयोगरूपसाध्याभावस्य कपिसंयोगस्य समवेतात्मकस्य यत्किञ्चित्प्रतियोगितावच्छेदकं यत् समवेतसामान्याभावत्वं, द्रव्यमानसमवेताभावत्वं वा-तदवच्छिन्नानधिकरणतायाः सत्त्वात् कपिसंयोगात्मकसाध्याभावस्य प्रतियोगिव्यधिकरणत्वेन. लक्षणघटकत्वादित्याशङ्कते-यद्यपीति । वृक्षादेः = वृक्षत्वरूपहेत्वधिकरणस्य, स्वसमवेतेति । वृक्षसमवेतेत्यर्थः । स्वसमवेतेत्यनेन कपिसंयोगप्रतियोगित्वं समवेतसामान्याभाव आविष्कृतम् ।
दीपिका वृक्षत्वं परित्यज्येति । ननु कपिसंयोग-वृक्षत्वान्यतराभावाभावस्यान्यतर. स्वरूपस्य कपिसंयोगस्वरूपतया साध्याभावकपिसंयोगप्रतियोगितावच्छेदकतादृशा. न्यतराभावत्वावच्छिन्नानधिकरणताया वृक्षे सत्त्वाद्वक्षत्वहेतुकस्थलेऽव्याप्तिसम्भवे आत्मत्वस्य हेतुत्वानुसरणं निरर्थकं, न च कपिसंयोग-वृक्षत्वान्यतराभावाभावो नान्यतरस्वरूपोऽपि तु वृक्षत्वस्वरूप एवेति वाच्यम् । 'कपिचरणं तादृशान्यतराभावाभाव. व'दित्यादिप्रत्ययानुपपत्तेरिति चेन्न ।
वृक्षत्व-कपिसंयोगान्यतराभावाभावस्यातिरिक्ताभावस्वरूपत्वाभ्युपगमात्, एवञ्च तस्यान्यतरस्वरूपत्वेऽनुगतत्वासम्भवात् न साध्याभावस्य कपिसंयोगस्य प्रतियोगितावच्छेदकत्वं तादृशान्यतराभावत्वे सम्भवतीत्यतो वृक्षत्वरूपहेतुं परित्यज्यात्मत्वं हेतुरुक्तः।