________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी -'प्रभावाभावस्यैव प्रतियोगित्व'मिति सिद्धान्तप्रवादाच्च ।
नन्वेवमपि निखिलाभावस्यैव स्वाश्रयतत्तद्वयक्तिवृत्तित्वविशिष्टं यत् स्वं,-तदभावात्मकस्वप्रतियोगिना सह समानाधिकरणत्वात् प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्यैव नातिव्याप्तिः, एकव्यक्तिमात्रवृत्तीनां गुणाद्यात्मकाभावानामपि पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्य योऽभावः
विवृतिः . स्वीकरणीयमेवेत्यत आह-अभावाभावस्येति । तथा च नित्यत्तित्वविशिष्टद्रव्यत्वाभावाभावो यदि नित्यैकत्वादिस्वरूपः स्यात्तर्हि-अभावाभावत्वरूपप्रतियोगित्वं तादृशद्रव्यत्वे न स्यात्, अतो निरुक्तप्रतियोगित्वलक्षणाव्याप्त्यादिनिरासायैव नित्यवृत्तित्वविशिष्टद्रव्यत्वाभावाभावो नित्यवृत्तित्वविशिष्टद्रव्यत्वस्वरूप एव, तथात्वे च तदभावस्य साध्याभाव-द्रव्यत्व-प्रतियोगिसामान्यान्तर्गततया पूर्वोक्तरीत्या भवत्येवातिव्याप्तिरिति तात्पर्यमवसेयम् ।
निरुक्तरीत्याऽभावाप्रसिद्याऽतिव्याप्तिन सम्भवतीत्याशङ्कते-नन्विति । निखिलेति । हेतुसमानाधिकरणत्वेनाभिमतस्य सर्वस्यैवाभावस्येत्यर्थः । स्वाश्रयेति। स्वपदं हेतुसमानाधिकरणतत्तदभावपरम् । तदाश्रयं = तत्तदधिकरणीभूतभूतलादिकंत्तद्व्यक्ति यत्तित्वविशिष्टं, यत्, स्वं = हेतुसमानाधिकरणतत्तदभावव्यक्तिः, नद. भावात्मकः = हेतुसमानाधिकरणतत्तदभावाभावात्मको यः, स्वस्य = हेतुसमानाधिकरणीभूततत्तदभावव्यक्तः,-प्रतियोगी, तेन सह समानाधिकरणत्वात् = तदधि. करणत्वस्य हेत्वधिकरणत्वे सत्त्वात् ।
नातिव्याप्तिरिति । तथा च 'द्रव्यत्वाभाववान् सत्त्वा'दित्यत्र हेतुसमानाधिकरणा ये घटाभावादयः, तत्तदधिकरणभूतलादिव्यक्तिवृत्तित्वविशिष्टघटाभावादेश्च घटाभावस्वरूपतया-घटाभावस्य प्रतियोगी यथा घटस्तथा तत्तद्भूतलादित्तित्वविशिष्टघटाभावाभावोऽपीति-तदधिकरणताया हेत्वधिकरणे द्रव्ये सत्त्वात्तादृशाभावाप्रसिद्या नातिव्याप्तिरित्यर्थः । एवं-पटाभावादिस्थलेऽपि निरुक्तरीतिः. स्वयमूहनीया।
ननु गुणाभावाभावस्य गुणस्वरूपस्य द्रव्यत्वसमानाधिकरणाभावस्य प्रतियोगी यो गुणाभावः, तदनधिकरणत्वस्य हेत्वधिकरणे द्रव्ये सत्त्वात् कथं प्रतियोगिव्यधिकरणाभावाप्रसिद्धया 'द्रव्यत्वाभाववान् सत्त्वा'दित्यनातिव्याप्तिवारणं सम्भवतीत्यत आह,-एकव्यक्तीति। द्रव्यमात्रवृत्तीनामित्यर्थः । गुणाद्यात्मकानां = गुणस्वरूपाणां, स्वस्य-गुणस्वरूपाभावस्य, योऽभावः = पूर्व..