________________
१२०
सिद्धान्त-लक्षण-जागदोशी ।
जागदीशी वस्तुतस्तु-तादात्म्यसम्बन्धेनापि न कस्य चित् प्रागुक्तव्याप्यवृत्तित्वमतो यथाश्रुतमेव सम्यक् ।
केचित्तु , - "प्रतियोग्यनधिकरणहेतुमनिष्ठाभावप्रतियोगितायां यद्धर्मावच्छिन्नत्व-यत्सम्बन्धावच्छिन्नत्वोभयाभाव इत्यादिवक्ष्यमाणनिष्कर्षस्य तादात्म्येन साध्यतायां व्यभिचारिण्यतिव्याप्तिः
विवृतिः स्यात्, भेदकूटनिवेशे तु वह्निसम्बन्धिपर्वतव्यक्तिभेदस्य पर्वतेऽसत्वान्न वयभावस्य लक्षणेघटकत्वमिति नान्याप्तिः । न च तादृशप्रतियोगिसम्बन्धित्वावच्छिन्नभेद एव हेत्वधिकरणे निवेश्यतां, किं भेदकूटनिवेशनेनेति वाच्यम् । सम्बन्धित्वस्याननुगत. तयैकसम्बन्धिभेदनिवेशे सम्बन्ध्यन्तरभेदमादाय निरुक्तरीत्या 'वह्निमान्धूमा'दित्यादावव्याप्तिप्रसङ्गस्य दुर्वारतापत्तः।
ननु भेदस्याव्याप्यवृत्तित्वं न प्रामाणिकमित्यत आह-वस्तुतस्त्विति । प्रागुक्तेति । कपिसंयोगिनस्तादात्म्येन सम्बन्धिनि रक्षे कपिसंयोगिभेदस्य कालिकेन वर्तमानतया न कपिसंयोगिनः पूर्वोक्तव्याप्यत्तित्वमित्यर्थः। यथाश्रुतेति । तादाम्येन कपिसंयोगिनः साध्यतास्थले प्रतियोगिवैयधिकरण्यस्यावश्यकतया सम्बन्धित्वानिवेशे भवति पूर्वोक्तरीत्याऽव्याप्तिरतः 'सम्बन्धि त्व'निवेशनमेव सम्यगित्यर्थः।
प्रकारान्तरेण 'सम्बन्धित्व'निवेशप्रयोजनमुपवर्णयर्ता मतमाह-केचित्त्विति । प्रतियोग्येति । प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नानधिकरणहेत्वधिकरणत्तिप्रतियोगितासामान्ये,-साध्यतावच्छेदकीभूतयडर्मावच्छिनत्व,-साध्यतावच्छेदकीभूतयत्सम्बन्धावच्छिन्नत्वोभयाभावः, तेन साध्यतावच्छे. दकसम्बन्धेन तादृशसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं हेतौ व्याप्तिरिति वक्ष्यमाणनिष्कृष्टलक्षणार्थः ।।
अतिव्याप्तिरिति । तथा च कपिसंयोगिनस्तादात्म्येन साध्यतायां प्रमेयत्वहेतौ 'प्रतियोग्यधिकरणत्व'स्थाने 'प्रतियोगिसम्बन्धित्वा'निवेशेऽतिव्याप्तिः, तादाम्येनाधिकरणाऽप्रसिद्ध्या कपिसंयोगिभेदस्य धर्जुमशक्यतया तादाम्येन घटान्योन्याभावीयघटादिनिष्ठे प्रतियोगित्वे तादात्म्यसम्बन्धावच्छिन्नत्वसत्त्वेऽपि; साध्यतावच्छेदकीभूतकपिसंयोगावच्छिन्नत्वविरहेणोभयाभावसत्त्वात् , समवायेन कपि संयोग्यभावप्रतियोगितायां च साध्यतावच्छेदककपि संयोगावच्छिन्नत्वसत्त्वेऽपि