________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
सम्बन्धेन 'प्रतियोगिसम्बन्धित्व' विवक्षणेन । न च तादात्म्येन वस्तुमात्रस्यैव व्याप्यवृत्तित्वाचादृशसम्बन्धेन साध्यतायां प्रतियोगिवैयधि करण्याप्रवेशादिदमयुक्तमिति वाच्यम् ; मूलाद्यवच्छेदेन कपिसंयोगवद्भेदस्य वृक्षादौ स्वयमङ्गीकारात्, तादात्म्येन कपिसंयोगवतोऽप्यव्याप्यवृत्तित्वात् ।
न चैवं 'प्रतियोग्यनधिकरण हेतुमन्निष्ठाभावे 'त्यप्रिम निष्कर्षेऽप्यप्रतीकारः, - प्रतियोगितावच्छेदकसम्बन्धेन ये प्रतियोगिसम्बन्धिनः -- तत्तद्व्यक्तित्वावच्छिन्नभेदकूटविशिष्टहेतुमद्वृत्तित्वस्यैव तत्र वक्तव्यत्वात् ।
११६
विटति:
विवक्षणेन = प्रतियोगितावच्छेदकावच्छिन्नसम्बन्धित्वविवक्षणेन, ननु सम्बन्धित्व - निवेशनं व्यर्थ, तादात्म्येन वस्तुमात्रस्यैव व्याप्यवृत्तितया कपिसंयोगिनोऽपि व्याप्यवृत्तित्वात् तत्साध्यके प्रतियोगिवैयधि करण्याप्रवेशेन केवलैतद्वृक्षत्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वघटितलक्षणस्य न तत्राव्याप्तिरित्या - शङ्कते - न चेति । इदं = पूर्वोक्ताव्याप्तिदानं ।
समाधत्ते – मूलेति । स्वयं = दीधितिकृता श्रव्याप्यवृत्तित्वादिति । तथा च कपिसंयोगिनस्तादात्म्येन साध्यतायामेतद्वृक्षत्वहेतुकस्थले प्रतियोगिवैयधिकरण्याप्रवेश एतद्वत्वाधिकरणे वृक्षे मूलावच्छेदेन कपिसंयोगि रूप साध्यभेदस्य सवादव्याप्तिः स्यादतः 'प्रतियोगिवैयधिकरण्यं' निवेश्यमेव ।
एवञ्च प्रतियोगिवैयधिकरण्यस्य प्रतियोगिसम्बन्ध्यवृत्तित्वार्थकत्वास्वीकारे arti तादात्म्यसम्बन्धेन प्रतियोग्यधिकरणाप्रसिद्ध्याऽव्याप्तिस्त्येवेत्यतः 'सम्बन्धित्व' निवेशनं कर्त्तव्यमेवेति भावः । एवं = सम्बन्धित्वनिवेशेऽपि ।
अग्रिमनिष्कर्ष इति । वक्ष्यमाण हेत्वधिकरणविशेषण-प्रतियोगिवैयधिकरय-प्रवेशेपि । अप्रतीकार इति । तथा च तल्लक्षणे तादात्म्येन कपिसंयोगिनः साध्यतायामेतद्वृक्षत्वहेतावव्याप्तिप्रसङ्गः, तादात्म्येन घट- पटादीनामधिकरणत्वस्याप्रसिद्धतया तदनधिकरणत्वस्य वक्तुमशक्यत्वात् ।
अग्रिमलक्षणेऽपि प्रतियोग्यधिकरणस्थाने प्रतियोगि सम्बन्धित्वं निवेशनीयमित्याशयेन समाधत्ते - प्रतियोगितेति ।
भेदकूटेति । अन्यथा 'वह्निमान्धूमादित्यत्र वह्नयभावप्रतियोगिवह्निसम्बन्धिमहानसभिन्नत्वस्य पर्वतादौ सत्त्वेन वह्नयभावस्य लक्षणघटकतयाऽव्याप्तिप्रसङ्गः