________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
अनुपदमेव च विवेचयिष्यते संसर्गाभावत्वप्रवेशे, -
जगदीशी
यत्तु 'भेदत्वादिवत्संसर्गाभावत्वमप्यखण्डोपाधि' रिति, तत्तुच्छम् ; भेदत्वादिवदखण्डस्य संसर्गाभावत्वस्यानुभवेनाविषयीकरणात्, तान्त्रिकव्यवहारस्य भेदभिन्नाभावत्वादिनाऽप्युपपत्तेः
वस्तुगतिमनुरुध्याह, — अनुपदमिति । विवेचयिष्यत इति । - 'तदपि वा नोपादेयमित्यादिमन्थेनेति शेषः ।
१०६
'साध्यतावच्छेदकसम्बन्धेन प्रतियोगिवैयधिकरण्य' घटितलक्षणमभिप्रेत्याह, प्रयोजनविरह इति । - धूमादिसमानाधिकरणस्य वह्यादिभेदस्य प्रतियोगिसमानाधिकरणत्वात् [ एव] तमादायाव्याप्तिविरहादिति भावः ।
विवृतिः च तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता यस्यैवम्भूतो योऽभावः सोऽन्योन्याभाव इति फलितम् ।
केचित्तु “भेदत्वमखण्डोपाधिः, न तु तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वं, एवं संसर्गाभावत्वमप्यखण्डोपाधिरेवेति” वदन्ति तन्मतमाशङ्कय दूषयति - तत्तुच्छमिति । संसर्गाभावत्वस्य = ध्वंसप्रागभावात्यन्ताभावसाधा· रणाभावत्वरूपधर्मस्य, अनुभवे विवादादाह - तान्त्रिकेति । शास्त्राभिज्ञानां शब्दप्रयोगात्मकाभिलापरूपव्यवहारस्येत्यर्थः । उपपत्तेरिति । तथा च " भयमभावः संसर्गाभावः" इत्याकारकतान्त्रिकव्यवहारे भेदभिन्नाभावत्वस्य प्रयोजकत्वाङ्गीकारेणैवोपपत्तेरखण्डसंसर्गाभावत्वस्याप्रामाणिकत्वमित्याशयः । वस्तुगतिमिति । मूलोत्तलक्षणस्याभावाघटितत्वमात्र एव तात्पर्यस्य वास्तविकत्वात्तदेवानुरुध्या-
हेत्यर्थः ।
दीधितौ यलक्षणमभिप्रेत्य प्रयोजनविरहोऽभिहितस्तल्लक्षणं प्रदर्शयतिसाध्यतावच्छेदकसम्बन्धेनेति । तथा च हेतुसमानाधिकरणसंसर्गाभावाप्रवेशे 'वह्निमान्धूमा' दित्यत्र वह्निभेदस्य धूमाधिकरणवृत्तित्वेऽपि तस्य साध्यताव - च्छेदकीभूतसंयोगसम्बन्धेन वह्निरूपप्रतियोग्यधिकरणे पर्वतादौ वर्त्तमानतया प्रतियोगिसमानाधिकरणत्वादेव वारणसम्भवे संसर्गाभावत्वप्रवेशो निष्फल एवेति भावः ।