________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः वक्ष्यते च नियमाघटितमेव संसर्गाभावादिलक्षणम्,
जागदीशी नन्वभावबुद्धौ प्रतियोग्यारोपस्य हेतुत्वे मानाभावादुक्तसंसर्गाभावत्वघटितव्याप्तिलक्षणस्यासम्भवः, कथञ्चिदभावलौकिकप्रत्यक्षं प्रति प्रतियोग्यारोपस्य हेतुतास्वीकारेऽपि,-अतीन्द्रियसाध्यके व्यभिचारिण्यतिव्याप्तिः, तत्र हेतुसमानाधिकरणसाध्याभावस्यातीन्द्रियतया निरुक्तसंसर्गाभावत्वविरहादत आह । ॐवक्ष्यते चेति । भेदभिन्नाभावत्वं संसर्गाभावत्वं, सदातनत्वविशिष्टश्च तदेवात्यन्ताभावत्वं, भेदत्वञ्च,-संसर्गविधया तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वम् , अनुयोगिताविशेषो वेत्याशयः ।
वितिः 'वक्ष्यत'इत्यादिग्रन्थावतरणिकामाह-नन्विति । अभावबुद्धौ = अभावविषयकज्ञानसामान्ये । असम्भव इति । आरोपजन्यत्वस्य संसर्गाभावेऽप्रसिद्धस्वादित्याशयः। ___ ननु 'प्रतियोग्यारोपं विनाऽभावलौकिकप्रत्यक्षमेव नोत्पद्यते, तत्सत्त्वे चोत्पद्यते' इत्यन्वयव्यतिरेकाभ्यां प्रतियोग्यारोपस्याभावलौकिकप्रत्यक्षहेतुत्वमेवावश्यकमित्यत आह-कथञ्चिदिति । प्रतियोग्यारोपं विनाप्यभावलौकिकप्रत्यक्षस्य नव्यैरभ्युपगमादुक्तान्वयव्यतिरेकासम्भवात्कथञ्चिदित्युक्तम् ।
स्वीकारेऽपीति । केषाञ्चिन्मते प्रतियोग्यारोपस्य हेतुत्वेऽपीत्यर्थः । अती. न्द्रियेति । 'मनस्त्ववानणुत्वा'दित्यत्रेत्यर्थः । अतिव्याप्ति सङ्गमयति-तत्रेति । अतीन्द्रियसाध्यकस्थल इत्यर्थः। साध्याभावस्य-मनस्त्वाभावस्य । निरुक्तेति । तथा च 'अत्र यदि मनस्त्वं स्यात्तमुपलभ्येते'त्याकारकारोपस्यैवाप्रसिद्ध्या तादृशारोपजन्यप्रतीतिविषयाभावत्वस्य मनस्त्वाभावरूपसाध्याभावेऽसत्त्वाद्भटाभावमादायैवातिव्याप्तिरिति भावः । वक्ष्यते चेतीति । आत्मतत्त्वविवेक इति शेषः । कीदृश वक्ष्यमाणं संसर्गाभावत्वलक्षणमित्याकाङ्क्षायामाह-भेद भिन्नाभावत्वमिति । ननु तर्हि किं नामात्यन्ताभावत्वमित्यत आह-सदातनत्वेति । तदेव = भेदभिन्नाभावत्वमेव, तथा च 'नित्यत्वे सति भेदभिन्नाभावत्वमत्यन्ताभावत्व'मिति पर्यवसितार्थः । ननु तर्हि भेदत्वमपि संसर्गाभावभिन्नाभावत्वं चेदन्योन्याश्रयप्रसङ्गइत्यत आह-भेदत्वञ्चेति । संसर्गविधया = संसर्गत्वेन, तादात्म्येति । तथा