________________
विवृति- दीपिकालङ्कृता ।
दीधितिः
जन्यताघटक नियम-घटितमिति वाच्यम् तद्वदन्यावृत्तित्वरूपनिय मस्य तत्र घटकत्वात्, एवं नियमान्तरस्यात्र प्रवेशेऽपि न क्षति - रित्याहुः || ९ ||
१०७.
जगदीशी
घटितमिति । - तथा च चक्रकादिप्रसङ्ग इति भावः ।
तत्र = जन्यत्वे, नियमान्तरस्य = साध्यसम्बन्धितावच्छेदक रूपवत्त्वादिस्वरूपस्येत्यर्थः ॥९॥
विटतिः
केचित्तु यथाक्रमेणैवान्वय बलात्स्वप्रतियोगिकप्रागभावव्यवहारोत्तर कालत्वरूपः प्रागभावस्य प्रतियोगितावच्छेदकसम्बन्धः, ध्वंसस्य तु स्वप्रतियोगिकध्वंस-व्यवहार पूर्व कालत्वरूपः, यदि च स्वोत्पत्तिक्षणेऽपि प्रागभावव्यवहारः प्रामाणिकस्तदा स्वोत्पत्त्यनधिकरणत्वेन प्रागभावादिव्यवहाराधिकरणकालस्य विवक्षणीयतया न कोऽपि दोषः, अत्रापि स्वपदं तत्तत्प्रतियोगिपरमित्याहुः ।
चक्रकादिप्रसंग इति । संसर्गाभावत्वघटितनिरुक्तव्याप्तिघटितजन्यताघटित -- स्वरूपापादकेन स्वस्मिन् स्वभिन्नत्वापादानप्रसङ्ग इत्यर्थः, तथा चोक्तं प्राचीनै:“स्वज्ञान सापेक्ष · ज्ञान सापेक्ष ज्ञानसापेक्ष ज्ञानविषयत्वेन स्वभिन्नत्वापादनं चक्रकप्रसङ्गः” इति । जन्यतायास्तद्व्याप्यत्वे सति तन्निष्ठान्यथासिद्ध्यनिरूपकत्वरूपत्वादिति भावः । श्रादिपदात्परम्परया संसर्गाभावत्वघटितत्वेनापादकेन स्वस्मिन् स्वभिन्नत्वापादनरूपस्यात्माश्रयस्य संसर्गाभावत्वघटितजन्यताघटितत्वेनापादकेन स्वस्मिन् स्वभिन्नत्वापादनरूपस्यान्योन्याश्रयस्यापि परिग्रहः ।
--
यत्तु मैथिलैरुक्तं, – “स्वमत्यन्ताभावत्वं तद्घटिता व्याप्तिस्तद्घटितं संसर्गाभावत्वं तद्घटितत्वरूपापादकस्यात्यन्ताभावत्वे सचात्तत्र स्वभिन्नत्वापादनं चक्रकप्रसङ्ग इति, तत्तुच्छम्, अत्यन्ताभावत्वे स्वभिन्नत्वापादनस्यार्थान्तरग्रस्ततया प्रकृतानुपयोगित्वात् । संसर्गाभावस्व एव स्वभिन्नत्वापादनस्य 'जन्यता घटकनियम घटित 'मि. त्यादिग्रन्थेन दीधितिकृता प्रतिपादितत्वादित्यलमधिकेन ।
जन्यताया घटिका व्याप्तिर्यदि न निरुक्ता व्याप्तिस्तर्हि चक्रक एव न सम्भवति, संसर्गाभावत्वघटितायाः स्वन्यापकसाध्य सामानाधिकरण्यरूपाया व्याप्तेर्जन्यतायाम घटकत्वादित्याशयेनाह — दीधितौ - तद्वदन्येति । साध्यवदन्यावृत्तित्वेत्यर्थः । तथ च संसर्गाभावत्वज्ञान सापेक्ष- पूर्वोक्तव्याप्तिज्ञान - सापेक्षत्वस्य जन्यताज्ञानेऽसत्वान्न चक्रक सङ्ग इति भावः । साध्यसम्बन्धितेति । साध्यसामानाधिकरण्यावच्छेदकरूपवत्त्वात्मकस्येत्यर्थः । अधिकम वक्ष्यते ॥ ९॥