________________
१०६
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः संसर्गाभावत्वञ्च,-संसर्गारोपजन्यप्रतीतिविषयाभावत्वरूपं
जागदीशी सदातनसंसर्गाभाव इत्यर्थः। संसर्गेति ।-स्वप्रतियोगितावच्छेदकसंसर्गेण यः प्रतियोग्यारोपः,-'तज्जन्यप्रतीतिविषयो योऽभावस्तत्त्वमित्यर्थः ।
संसर्गस्तु तादात्म्यभिन्नो ग्राह्यः, तेन भेदव्युदासः ।
'प्रागभावध्वंसयोरपि उत्तरकालपूर्वकालावेव प्रतियोगितावच्छेदकसम्बन्धाविति,-ताभ्यामेव [ सम्बन्धाभ्यां ] प्रतियोग्यारोपः प्रागभावध्वं. सयोः प्रत्यक्षे हेतुरतस्तयो व्याप्तिरिति'-प्राचामाशयः ।
विरतिः सदातनेति । नित्येत्यर्थः । स्वप्रतियोगितेति । स्वपदं तत्तत्संसर्गाभावव्यक्तिपरम् । तत्प्रतियोगितावच्छेदकसंसर्गेण = तत्प्रतियोगितावच्छेदकसम्बन्धेन, प्रतियोग्यारोपः = “अत्र यदि प्रतियोगी स्यात्तर्युपलभ्येते" त्याकारक आरोपः, तजन्यः = आरोपजन्यः, प्रतीतिविषयः = ज्ञानविषयः, लौकिक प्रत्यक्षविषयो वा, तादात्म्यभिन्नेति। तथा च तादात्म्यभिन्नप्रतियोगितावच्छेदकसम्बन्धेनेत्येवार्थः करणीय इत्याशयः । व्युदासइति । तथा च तादात्म्येन यदि घटः स्यात्ती. पलभ्येते"त्याकारकारोपजन्यप्रतीतिविषये 'वटो ने'त्याकारकेऽन्योन्याभावेऽतिप्रसङ्गः स्यात् , तद्वारणाय स्वप्रतियोगितावच्छेदकसम्बन्धस्तादात्म्यातिरिक्तो वक्तव्य इत्याशयः ।
ननु ध्वंस-प्रागभावप्रतियोगितायाः सम्बन्धानवच्छिन्नतया तत्प्रतियोगिताव. च्छेदकसम्बन्धाऽप्रसिद्ध्या स्वपदेन ध्वंसप्रागभावयोधर्तमशक्यत्वात्तयोनिरुक्तसंसर्गाभावत्वलक्षणमव्यापकमित्यत आह-प्रागभावध्वंसयोरपीति । उत्तरकालपूर्वकालावेव = पूर्वोत्तरकालावेव, क्वचित्तथैव पाठः । प्रागभावस्य स्वाश्रयपूर्वकालत्वं प्रतियोगितावच्छेदकसम्बन्धः, ध्वंसस्य तु स्वाश्रयोत्तरकालत्वं प्रतियोगितावच्छेदक. सम्बन्ध इति विपरीतक्रमेणैवान्वयो बोध्यः । ताभ्यामिति । तथा च "स्वाश्रय. पूर्वकालत्वसम्बन्धेन यदि घटः स्यात्तर्हि तद्वत्तयोपलभ्येते"त्याकारकारोपः प्रागभाव प्रत्यक्षे हेतुः, 'स्वाश्रयोत्तरकालत्वसम्बन्धेन यदि घटः स्यात्तर्हि तद्वत्तयोपलभ्येते'. त्याकारकारोपस्तु ध्वंसप्रत्यक्षे हेतुरित्याशयः । स्वपदं तत्तत्प्रतियोगिपरं । .
१ तज्जन्यप्रतीतिविषयाभांवत्वमित्यर्थः' इति हस्तलिखितपुस्तकपाठः । २ 'तादात्म्यातिरिक्तो ग्राह्यः' इति प्राचीनलिखित पुस्तके पाठः।