________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः प्रयोजनविरहोऽव्याप्तिश्च ॥१०॥
जागदीशी व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्य 'साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता'घटितत्वात्, तदभिप्रेत्याह, अव्याप्तिश्चेति* :तादात्म्येन गवादेः साध्यतायां तत्सम्बन्धावच्छिन्नात्यन्ताभावाप्रसिद्ध्या सास्नावत्त्वादावव्याप्तिरित्यर्थः ।
इदम"प्यभाववृत्तिरभावो नाधिकरणस्वरूपो, न वा धर्मात्यन्ताभाव एव धर्मिणो भेद" इति मतेन ।
विवृतिः दीधितौ यल्लक्षणमभिप्रेत्य संसर्गाभावत्वप्रवेशेऽव्याप्तिरभिहिता तत्प्रदर्शयतिव्याप्यवृत्तीति। हेतुसमानाधिकरणाभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्यैव व्याप्य. वृत्तिसाध्यकस्थलीयलक्षणत्वादिति भावः । तादात्म्येनेति । 'गौः सास्नावत्त्वा'. दित्यत्र सास्नावत्त्वसमानाधिकरणसंसर्गाभावनिरूपितसाध्यतावच्छेदकीभूततादात्म्यसम्बन्धावच्छिन्नप्रतियोगित्वाप्रसिद्ध्या सास्नावत्त्वहेतावव्याप्तिः संसर्गाभावत्वप्रवेशेऽस्तीत्याशयः।
नन्वभावाधिकरणकाभावस्याधिकरणस्वरूपतया पटभेदाधिकरणकघटभेदत्वात्यः न्ताभावस्य पटभेदस्वरूपतया पटनिष्ठप्रतियोगितैव तादृशपटभेदात्मकघटभेदत्वा. त्यन्ताभावरूपसंसर्गाभावनिरूपिततादात्म्यसम्बन्धावच्छिन्ना, एवं,-'समनियता. भावानामैक्य'मिति मते पटभेदस्य पटत्वात्यन्ताभावस्वरूपतया पटनिष्ठप्रतियोगिता पटभेदात्मकपटत्वात्यन्ताभावरूपसंसर्गाभावनिरूपिता तादात्म्यसम्बन्धावच्छिन्ना. पीति, न संसर्गाभावनिरूपिततादाम्यसम्बन्धावच्छिन्न प्रतियोगित्वाप्रसिद्ध्याऽव्याप्तिः सम्भवतीत्यत आह-इदमपीति। निरुक्ताव्याप्तिदानमपीत्यर्थः। अभाववृत्तिरभावः =
दीपिका इदमप्यभाववृत्तिरिति । ननु घटाभावस्य तादात्म्येन साध्यत्वे तव्यक्तित्वहेतौ हेतुसमानाधिकरणघटत्वाभावस्य माध्यभेदरूपत्वेनैक्यात्तत्प्रतियोगितावच्छेदकमेव सा. ध्यतावच्छेदकमित्यव्याप्तिसम्भवे तत्परित्यागे किं बीजमिति चेन्न । हेत्वधिकरणवृत्तितावच्छेदकीभूतानुयोगितानिरूपितात्यन्ताभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रति - योगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वात् ।