________________
६४
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मलरूपम्, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः सूरणकन्दादिः, मूलम् उशीरादीति । एते च सूक्ष्मत्वाद् नैक-द्वयादिकाः समुपलभ्यन्ते, यत्सङ्ख्यास्तूपलभ्यन्ते तद् दर्शयितुमाह
एक्कस्स दोण्ह तिण्ह व संखेज्जाण व ण पासिउं सक्का । दीसंति सरीराइं पुढविजियाणं असंखाणं ॥८२॥
एगस्सेत्यादि । स्पष्टा । कथं पुनरिदमवगन्तव्यम् 'सन्ति पृथिवीकायिकाः' इति ? उच्यते-तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिः, गवाश्वादाविव इति । एतद्दर्शयितुमाह
एएहिं सरीरेहिं पच्चक्खं ते परूविया होति । 10 सेसा आणागेज्झा चक्खुप्फासं न ते इंति ॥८३॥
एएहीत्यादि । एभिः असङ्ख्येयतयोपलभ्यमानैः पृथिवी-शर्करादिभेदभिन्नैः शरीरैः ते शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात् प्ररूपिताः प्रख्यापिता भवन्ति । शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नाऽऽगच्छन्ति । स्पर्शशब्दः विषयार्थः । प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह
उवओग जोग अज्झवसाणे मइ सुय अचक्खुदंसे य । अट्टविहोदयलेसा सण्णुस्सासे कसाए य ॥४४॥
उवओगेत्यादि । तत्र पृथिकायादीनां स्त्यानद्धर्युदयाद् या च यावती चोपयोगशक्तिरव्यक्ता ज्ञान-दर्शनरूपा इत्येवमात्मक उपयोगो लक्षणम् । तथा योगः कायाख्य एक एव औदारिक-तन्मिश्र-कार्मणात्मको वृद्धयष्टिकल्पो जन्तोः 20 सकर्मकस्यालम्बनाय व्याप्रियते । तथा अध्यवसायाः सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुरुषमन:समुद्भूतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः । तथा साकारोपयोगान्त:पातिमति-श्रुताज्ञानसमन्विताः
१. पासियं ज । २. स्पष्टम् च । ३. ते वरूवि० ज । ४. ०ज्झा उ चक्खुफासं न तो ति ( ते तिं )ति ज । ५. ०एहिं इत्या० ख । ६. असङ्ख्यतयो० ख । ७. ०ताः ख्यापि० कप्रतेविना । ८. ०लेस्सा ख । ९. ०नद्धर्याधुदयाद् क-खपुस्तके विना ।