________________
5
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः पृथ्वीकायिका बोद्धव्याः । तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः । तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद् बन्धभाजश्च । तथा लेश्याः अध्यवसायविशेषरूपाः कृष्ण-नील-कापोत-तैजस्यश्चतस्रः ताभिरनुगताः । तथा दशविधसंज्ञानुगताः, ताश्चाहारादिकाः प्रागुक्ता एव । तथा सूक्ष्मोच्छ्वासनिःश्वासानुगताः, उक्तं च
___ पुढविकाइया णं भंते ! जीवा आणवंति वा पाणवंति वा ऊससंति वा नीससंति वा ? गोतमा ! अविरहियं संतयं चेव आणवंति वा पाणवंति वा ऊससंति वा नीससंति वा । [ ]
कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्ति । ततश्चैवंविधजीवलक्षण- 10 कलापसमनुगतत्वाद् मनुष्यवत् सचित्ता पृथिवीति । ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथाहि-न ह्युपयोगादीनि लक्षणानि पृथ्वीका ये प्रव्यक्तानि समुपलक्ष्यन्ते ? सत्यमेतद्, अव्यक्तानि तु दृश्यन्ते, यथा कस्यचित् पुंसः हृत्पूरव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः । ननु 15 चात्रोच्छासादिकमव्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति ? नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङ्करवत्
चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तपुष्प-फलप्रदत्वेन स्पष्टम्, साधयिष्यते च । ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथ्वीति 20 स्थितम् । ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वम् ? इति, अत्राह
१. पृथिवीका० कप्रत्या ऋते । २. ज्ञानदर्शनावर० ग । ३. ०कपोत च । ४. सततं ख । ५. वन्तीति ग । ६. तद असिद्धं यद असिद्धेन ख । ७. पृथिवीकाये कपुस्तकाद्विना। ८. ०येषु व्य० ख । ९. विद्यन्ते कप्रतिमृते । १०. ०रकव्य० च । ११. ०रापान० च । १२. शिष्टार्थपु० ख । १३. स्फ( स्फु )टं क । १४. पृथिवीति कआदर्शादृते । १५. अत आह कप्रतिमनादृत्य ।