SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अट्ठी जहा सरीरम्मि अणुगयं चेयणं खरं दिटुं । एवं जीवमणुगयं पुढविसरीरं खरं होई ॥८५॥ अट्ठिमित्यादि । यथास्थि शरीरानुगतं सचेतनं खरं दृष्टम् एवं जीवानुगतं पृथ्वीशरीरमपीति । साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते । सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥८६॥ जे बायरेत्यादि । तत्र पृथिवीकायिकाश्चतुर्धा, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च, तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च । तत्र ये बादराः पर्याप्तास्ते संवर्तितलोकप्रतरासङ्ख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि 10 राशयः प्रत्येकमसङ्ख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम् सव्वत्थोवा बायरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया पज्जत्ता असंखेज्जगुणा । [ ] प्रकारान्तरेणापि राशित्रयस्य प्रमाणं दर्शयितुमाहपत्थेण व कुलएण व जह कोइ मिणिज्ज सव्वधन्नाइं । एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥८७॥ पत्थेत्यादि । यथा प्रस्थादिना कश्चित् सर्वधान्यानि मिनुयाद् एवमसद्भावप्रज्ञापनाङ्गीकरणाद् लोकं कुडवीकृत्य अजघन्योत्कृष्टावगाहनान् पृथिवी20 का यिकान् जीवान् यदि मिनोति ततोऽसङ्ख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ।। पुनरपि प्रकारान्तरेण परिमाणमाह १. जीवाणुगयं ख ज झ ठ । २. अट्ठीत्यादि ग च । ३. पृथिवीश० कपुस्तकं विमुच्यान्यत्र । ४. ०मपि ॥ सा० ख । ५. लोए झ ञ । ६. सूक्ष्मा: पर्याप्ता अपर्याप्ताश्च ग ङ। ७. ०र्याप्तकास्ते कागदीयप्रतिषु । ८. ०शिपरिमाणा ख । ९. ०मेणैवैते ग । १०. परिमाणं कसंज्ञकादर्शेन विना । ११. कुलवेण ख, कुडएण ज झ, कुडवेण ठ । १२. ०यिकान् यदि ख, ०यिकजी० कागदीयप्रतिषु ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy