________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः आहार-सरीरिंदिय-ऊसास-वओ-मणोभिणिव्वत्ती । होइ जओ देलियाओ करणं पइ सा उ पज्जत्ती ॥ [ जीवस०]
जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति, तेन च करणविशेषेणाहारमवगृह्य पृथक् खलरसादिभावेन परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते । एवं शेषपर्याप्तयोऽपि वाच्याः । तत्रैकेन्द्रियाणामाहार- 5 शरीरेन्द्रियोच्छासाभिधानाश्चतस्रो भवन्ति । एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते । अनाप्तपर्याप्तिरपर्याप्तकः । अवाप्तपर्याप्तिस्तु पर्याप्तक इति । अत्र च पृथिव्येव कायो येषामिति विग्रहः । यथा सूक्ष्म-बादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह
रुक्खाणं गच्छाणं गुम्माण लयाण वल्लि-वलयाणं । 10 जह दीसइ नाणत्तं पुढविक्काए तहा जाण ॥८०॥
रुक्खाणमित्यादि । यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते तथा पृथिवीकायेऽपि जानीहि । तंत्र वृक्षाः चूतादयः, गच्छाः वृन्ताकी-सल्लकीकास्यादयः, गुल्मानि नवमालिका-कोरण्टकादीनि, लताः पुन्नागाऽशोकलताः, वल्ल्यः त्रपुषी-वालुङ्की-कोशातक्यादयः, वलयानि केतकी- 15 कदल्यादीनि । पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह
ओसहि तण सेवाले पणगविहाणे य कंदमूले य । जह दीसइ णाणत्तं पुढविक्काए तहा जाण ॥८१॥
ओसहीत्यादि । यथा हि वनस्पतिकायस्यौषध्यादिको भेदः एवं पृथिव्या अपि द्रष्टव्यः । तत्र औषध्यः शाल्याद्याः, तृणानि दर्भादीनि, शैवलं जलोपरि 20
१. वयो क-खप्रतिभ्यामृते । २. ०णिव्वित्ती घ ङ । ३. "दलियाओ इति तत्तनि(न्नि)प्पत्ति-योग्यवर्गणारूपात्. तस्य दलिकस्य स्वस्वविपये प्रणमं तं प्रति यत् करणं शक्तिरूपं सा पर्याप्तिरुच्यते" जै०वि०प० । ४. गच्छाणं क झ ब ठ। ५. नाणत्ती छ ज झ ।
काए ख ज झ । ७. ०क्काया क । ८. जाणे ख । ९. ०कायिकेऽपि ग ङ, ०काये विजानी० क । १०. तथा च। ११. गुच्छा: क-गपुस्तके विना । १२. ०कोरेण्ट० ग, ०कोरिण्ट० घ । १३. ०क्याद्याः कागदीयादशेषु । १४. णाणत्ती छ ज झ । १५. पुढवीकाए झ। १६. ०व्यामपि ख ।