________________
६२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इह च संवृतयोनयः पृथिवीकायिकाः । सा पुनः सचित्ता अचित्ता मिश्रा वा । तथा पुनः शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति । एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह
वन्नम्मि य एक्ककं गंधम्मि रसम्मि तह य फासम्मि । णाणत्ती कायव्वा विहाणए होइ एक्कक्के ॥७८॥
वन्नम्मीत्यादि । वर्णादिके एकैकस्मिन् विधाने भेदे सहस्राग्रशो नानात्वं विधेयम्, तथाहि-कृष्णो वर्ण इति सामान्यम्, तस्य च भ्रमरा-ऽङ्गार-कोकिलगवल-कज्जलादिषु प्रकर्षा-ऽप्रकर्षविशेषाद् भेदः कृष्णः कृष्णतर: कृष्णतम इत्यादि । एवं नीलादिष्वप्यायोज्यम् । तथा रस-गन्ध-स्पर्शेषु सर्वत्र पृथिवीभेदा 10 वाच्याः । तथा वर्णादीनां परस्परसंयोगाद् धूसर-केसर-कर्बुरादिवर्णान्तरोत्पत्तिः ।
एवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षा-ऽप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः । पुनरपि पर्याप्तकादिभेदेन भेदमाह
जे बायरे विहाणा पज्जत्ता तित्तिया अपज्जत्ता । 15 सुहुमा वि होंति दुविहा पज्जत्ता चेवऽपज्जत्ता ॥७९॥
जे बादर इत्यादि । यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादिताः तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि । अत्र च भेदानां तुल्यत्वं द्रष्टव्यम्, न तु जीवानाम्, यत एकपर्याप्तकाश्रयेणासङ्ख्येया अपर्याप्तका
भवन्ति । सूक्ष्मा अपि पर्याप्तका-5 पर्याप्तकभेदेन द्विविधा एव, किन्तु 20 अपर्याप्तनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमाद
सङ्ख्येयाः पर्याप्ताः स्युः । पर्याप्तिस्तु
१. ०यः खरबादरपृथिवीकायिका उक्ताः । सा ख । २. पुनश्च शी० कआदर्श विना। ३. ०णओ क । ४. ०र्णाद्येकै० ख । ५. च इति कप्रतौ न वर्तते । ६. ०भेदानाह ख, ०भेदाद् भेद० ग घ ङ च । ७. ०व अपज्ज(ज) त्ता छप्रति विना। ८. ०र्याप्ता-ऽप० ख घ ङ । ९. द्विधा च । १०. ०प्तकनि० कखप्रती विना । ११. र्याप्तका: घ च।