________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः
एतावंतीत्यादि । एयावंती सव्वावंती इति एतौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ । एतावन्त एव सर्वस्मिन् लोके धर्मा-ऽधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्वं प्रतिपादिताः कर्मसमारम्भाः क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति । सर्वेषां पूर्वत्रोपादानादिति भावः, तथाहि-आत्म-परोभयैहिका -ऽऽमुष्मिका - ऽतीता- 5 ऽनागत-वर्तमानकाल- कृत-कारिता - ऽनुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ।
एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्थ्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह—
[सू०९ ] जस्सेते लोगंसि कम्मसमारंभा परिण्णाया 10 भवंति से ह मुणी परिण्णायकम्मे त्ति बेमि । हु
जस्सेत्यादि । भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-यस्य मुमुक्षोः एते पूर्वोक्ताः कर्मसमारम्भाः क्रियाविशेषाः, कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाः उपादानहेतवः, ते च क्रियाविशेषा एव, परि समन्ताद् ज्ञाताः परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति । हुः अवधारणे । मनुते 15 मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः । स एव मुनिः ज्ञपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनो-वाक्कायव्यापार इति । अनेन च मोक्षाङ्गभूते ज्ञान - क्रिये उपात्ते भवतः, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्- ज्ञान-क्रियाभ्यां मोक्षः [नाणकिरियाहिं मोक्खो विशेषाव० भा० ३] इति । इतिशब्दः एतावानयमात्मपदार्थविचारः कर्मबन्ध - 20 हेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः । यदि वा इति एतद् अहं ब्रवीमि यत् प्रागुक्तं यच्च वक्ष्ये तत् सर्वं भगवदन्तिके साक्षात् श्रुत्वेति ॥ प्रथमोद्देशकः समाप्तः ॥
५७
-
१. एयावंती सव्वावतीत्यादि एतौ क । २. ० सिद्धौ ए० ग । ३. ते सर्वे ख । ४. ०णां कर्मबन्ध० ख । ५. कर्मारम्भाः क । ६. ० नाद्यावर० घ च । ७. ०तमनो० क । ८. कर्मसम्बन्ध० ख । ९. इति । यदि ख । १०. ०मि इति यत् क ०मि यच्च प्रा० घ । ११. शस्त्रपरिज्ञायां प्रथमोद्देशकः समाप्त इति घ च, ..०शक उक्त: । ग ङ। १२. समाप्त इति कपुस्तके नास्ति ।