________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्मा श्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते । तथाऽस्यैव जीवितस्य परिवन्दन-मानन-पूजनार्थं हिंसादिषु प्रवर्तन्ते । तत्र परिवन्दनं संस्तवः प्रशंसा, तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद् बली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति । माननम् अभ्युत्थाना-ऽऽसनदाना-ऽञ्जलि- 5 प्रग्रहादिरूपम्, तदर्थं चाऽऽचेष्टमानः कर्माचिनोति । तथा पूजनं द्रविण-वस्त्राऽन्न-पान-सत्कार-प्रणामसेवाविशेषरूपम्, तदर्थं च प्रवर्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि-वीरभोग्या वसुन्धरा इति मत्वा पराक्रमते, दण्डभयाच्च सर्वाः प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञाम्, अन्येषामपि यथासम्भवमायोजनीयम् । अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी 10 विधेया । परिवन्दन-मानन-पूजनाय जीवितस्य कर्माश्रवेष प्रवर्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं च जाति-मरण-मोचनमिति समाहारद्वन्द्वात् तादर्थ्य चतुर्थी, एतदर्थं च क्रियासु प्रवर्तमानाः प्राणिनः कर्माददते । तत्र जात्यर्थं क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो 15 ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्
वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥ [
अत्र चैकमेव सुभाषितम् अभयप्रदानमिति तुषमध्ये कणिकावदिति । एवमादिकुमार्गोपदेशाद् हिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि 20 पितृपिण्डदाना दिषु क्रियासु प्रवर्तते, यदि वा ममाऽनेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थं वध-बन्धादौ प्रवर्तते, यदि वा मरणनिवृत्त्यर्थमात्मनो
१. ०मनुबद्धत० क । २. ०किसल० कगप्रतिभ्यामृते । ३. ०तथास्यापि जी० ख । ४. इव प्रशंसास्पदं लोकानां भवि० ख । ५. ०ति । तथा मान० ख । ६. ०नं पूजा द्रवि० ख । ७. द्वन्द्वं स० ख । ८. ०षु वर्त० क । ९. वर्तत ग ङ विना । १०. च प्राणिनः क्रियासु प्रवर्तमाना: कर्मा० कप्रत्या विना । ११. तत्र इति नास्ति खपुस्तके । १२. ०ञ्चादिव० ग । १३. ब्राह्मणेभ्यो च । १४. ०पि पिण्ड० ख । १५. ०दिक्रिया० ङ।