________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः
अविज्ञातम् अविदितं कर्म क्रिया व्यापारो मनो- वाक्- कायलक्षणः अकार्षमहं करोमि करिष्यामीत्येवंरूपो जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो येन सोऽयम् । अविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति । यद्येवं ततः किम् ? इत्यत आह
५३
[सू०७ ] तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण - माणण पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेतुं ।
तत्थ अकारि करिस्सं ति बंधचिंता कया पुणो हो । सहसम्मुइया जाणइ कोई पुण हेउजुत्तीए ॥ ६७॥ दारं ॥
तत्थेत्यादि । तत्र कर्मणि व्यापारेऽकार्षमहं करोमि करिष्यामीत्याद्यात्मपरिणतिस्वभावतया मनो- वाक् - कायव्यापाररूपे । भगवता वीरवर्धमान - 10 स्वामिना। परिज्ञानं परिज्ञा । सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदता प्रवेदिता । एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति । सा च द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । तत्र ज्ञपरिज्ञया 'सावद्यव्यापारेण बन्धो भवति' इत्येवं भगवता परिज्ञा प्रवेदिता । प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया एवंरूपा चेति । अमुमेवार्थं निर्युक्तिकृदाह
5
१. ०त्यात्म० ग ङ। २. जम्बूनाम्ने कपुस्तकं विना । ३. द्विविधा च । ४. ०य इत्येवं कप्रतिमृते । ५. ० सम्मइया ठ, ०सम्मुयया झ ।
15
तत्थेत्यादि । तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह- अकारि करिस्सं ति, अकारि इति कृतवान्, करिस्सं ति करिष्यामीति । अनेनातीताऽनागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारिता - ऽनुमत्योश्चोपसङ्ग्रहाद् नवापि 20 भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः । तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण बन्धचिन्ता कृता भवति बन्धस्योपादानमुपात्तं भवति, कर्म योगनिमित्तं बध्यते [ ] इति वचनात् । एतच्च कश्चिज्जानाति आत्मना सह या