________________
५२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे परिज्ञातकर्मा संसारी स्पर्शादीन् विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकत: परिसंवेदयति, आह च
तैः कर्मभिः स जीवो विवश: संसारचक्रमुपयाति । द्रव्य-क्षेत्रा-ऽद्धा-भावभिन्नमावर्तते बहुशः ॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भय-क्षुत्-तृङ्-वधादिदुःखं सुखं चाल्पम् ॥ सुख-दुःखे मनुजानां मन:-शरीराश्रये बहुविकल्पे । सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसम्पन्नः ॥ बध्नाति ततो बहुविधमन्यत् पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्नि प्रविश्येव ॥ एवं कर्माणि पुनः पुनः स बध्नंस्तथैव मुञ्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वा-ऽधार्मिकत्व-दुष्कर्मबाहुल्यैः ॥ आर्यो देशः कुल-रूप-संपदा-ऽऽयुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितैक्ष्ण्यम् ॥ [ ] एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य ।। कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥ [ ]
यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति सः अविज्ञातकर्मा
१. ०यतीति आह घ ङ च । २. ०बन्धमु० च । ३. तु ख घ ङ। ४. ०षाय पु० ख। ५. प्राणव० कगपुस्तके ऋते । ६. ०सञ्छन्नः कप्रत्या विना । ७. ०रबहुत्वा० ख । ८. ०बाहल्यैः घ । ९. ०ति तन्मा० ख । १०. प्रतिवे० ख ।
25