________________
10
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः सीयादी जोणीओ चउरासीती य सयसहस्सेहिं । असुहाओ य सुहाओ तत्थ सुहाओ इमा जाण ॥ [ ] अस्संखाउमणुस्सा राईसर संखमादियाऊणं । तित्थयरनामगोयं सव्वसुहं होइ नायव्वं ॥ [ तत्थ वि य जातिसंपन्नयादि सेसा उ होंति असुहाओ । देवेसु किब्बिसादी सेसाओ होंति उ सुहाओ ॥ [ ] पंचिंदियतिरिएसुं हय-गयरयणा हवंति उ सुहाओ। सेसाओ असुहाओ हवंति एगिदियादीया ॥ [ ] देविंद-चक्कवट्टित्तणाई मोत्तुं च तित्थयरभावं । अणगारभाविया वि य सेसा 3 अणंतसो पत्ता ॥ [ ]
एताश्चानेकरूपा योनीदिंगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् संधेई त्ति सन्धयति सन्धि करोत्यात्मना सहाविच्छेदेन सङ्घटयतीत्यर्थः संधावइ त्ति वा । पाठान्तरम्, संधावति पौन:पुन्येन ता गच्छतीत्यर्थः ।
तत्सन्धाने च यदनुभवति तद् दर्शयति-विरूपं बीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाता: 15 'स्पर्शा' इत्युक्ताः, 'तात्स्थ्यात् तद्व्यपदेशः' इति कृत्वा । उपलक्षणं चैतद् मानस्योऽपि वेदना ग्राह्याः । अतस्तानेवम्भूतान् स्पर्शान् प्रतिसंवेदयति अनुभवति । प्रतिग्रहणात् प्रत्येकं शारीरान् मानसांश्च दुःखोपनिपाताननुभवतीत्युक्तं भवति । स्पर्शग्रहणं चेह सर्वसंसारान्तर्वतिजीवराशिसङ्ग्रहार्थम्, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वात् । अत्रेदमपि वक्तव्यम्-सर्वान् विरूपरूपान् रस-गन्ध-रूप- 20 शब्दान् प्रतिसंवेदयतीति । विरूपरूपत्वं च स्पर्शानां कार्य भूतानां विचित्रकर्मोदयात् कारणभूताद् भवतीति वेदितव्यम्, विचित्रकर्मोदयाच्चा
१. ०हस्साइं । ग । २. जाणे घ, जाणो च । ३. ०दिआऊणं ग घ ङ, दिआयूणं च। ४. हुंति घ ङ। ५. हुंति च । ६, ८. य ग । ७. ०रयणे ग ङ। ९. ०ओ सुभवन्नेगिं० कआदर्शाद्विना । १०. मुत्तूण तित्थ० घ च । ११. ०या इ य मोत्तूणमणं० क । १२. य घ च। १३. ०यते ख । १४. सट्टय० ग । १५. ०म् पौन:० क ख । १६. तां क, वा घ ङ। १७. ०न्धानेन च ख घ ङ । १८. ०था दुःखो० ग । १९. ०रावर्ति० घ । २०. अत्रैतदपि ग।