________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः
४९ तथा अचीकरमहम् इत्यनेन परोऽकार्यादौ प्रवर्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृत-कारिता-ऽनुमतिभिर्भूतकालाभिधानम् । तथा करोमीत्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः । तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञः अनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः । अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो भूत- 5 वर्तमान-भविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति । सा च नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति एतदनुसारेणैव सम्भवानुमानादतीता-ऽनागतयोरपि भवयोरात्मास्तित्वमवसेयम् । यदि वा अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमावेदितमिति । अथ किमेतावत्य एव क्रिया: 10 उतान्या अपि सन्ति ? इति, एतावत्य एवेत्याह
[सू०५] एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणितव्वा भवंति ।
एयावंतीत्यादि । एतावन्तः सर्वेऽपि लोके प्राणिसङ्घाते कर्मसमारम्भाः क्रियाविशेषा ये प्रागुक्ताः अतीता-ऽनागत-वर्तमानभेदेन कृत-कारिता- 15 ऽनुमतिभिश्च, अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति एतावन्त एव परिज्ञातव्या भवन्ति, नान्य इति । परिज्ञा च ज्ञ-प्रत्याख्यानभेदाद् द्विधा । तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैतिं भवति । प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितम् । अधुना तस्यैवात्मनो दिगादि- 20 भ्रमणहेतूपंप्रदर्शनपुरस्सरमपायान् प्रदर्शितुमाह । यदि वा यस्तावदात्म-कर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह
११
.
१. इति परो० क । २. ०दौ प्रवृत्तमा० क, ०दौ वर्त० घ । ३. निति भू( क)त०
मानाका० घ ङ। ५. समनज्ञापरा० क ग ङ समनज्ञानपरा० ख । ६. यस्प० ख। ७. ०न्तनित्यक्षणिकवा० ख । ८. ०पि कालयो० ख । ९. ०याः सम्प्रदानमावे० च । १०. एता एवे० ङ। ११. ०मणे हे० च । १२. ०पदर्श० ग ङ च । १३. ०गादिपरिभ्र० ग च । १४. ०न् प्रदर्श० ख घ ङ ।