________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः नित्यम् [ ] इति कृत्वा मरणाभावेन भवान्तरसङ्क्रान्तिरेव न स्यात्, सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात् सोऽहम् इत्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः प्राणिगणस्तं वदितुं शीलमस्येति । अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तम् । यदि वा लोकापाती, लोकः चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्रापतितुं 5 शीलमस्येति । अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता । तंत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमना-ऽऽगमनमावेदितं भवति । य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः स एवासुमान् कर्मवादी, कर्म ज्ञानावरणीयादि तद्वदितुं शीलमस्येति, यतो हि प्राणिनो मिथ्यात्वा-ऽविरतिप्रमाद-कषाय-योगैः पूर्वं गत्यादियोग्यानि कर्माण्याददते पश्चात् तासु तासु 10 विरूपरूपासु योनिषूत्पद्यन्ते । कर्म च प्रकृति-स्थित्य-ऽनुभाव-प्रदेशात्मकमवसेयमिति । अनेन च काल-यदृच्छा-ऽऽत्म-नियती-श्वरादिवादिनो निरस्ता द्रष्टव्याः । तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापार:, स च क्रियारूपः । अतः कर्मणः कार्यभूतस्य वदनात् तत्कारणभूतायाः क्रिया या अप्यसावेव परमार्थतो वादीति। 15 क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः
जाव णं भंते एस ज्जीवे सया समियं एयइ वेयइ चलइ फंदइ कंदइ तिप्पति जाव तं तं भावं परिणमति ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो णं अबंधए [] त्ति ।
एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति । अनेन च 20
१. ०न्तिरपि न ख । २. क्षणविनाशेऽपि निर्मूलत्वात् सोऽहं० क । ३. ०तनिरा० ख। ४. ०ती लोकयतीति लोकः च० ख, ०तीति लोकः ग । ५. ०न विशि० ख । ६. ०ण्डकस्य च, ०ण्डलोक० क । ७. ०ज्ञा निवे० ख । ८. तत्र जी० ख । ९. एव दि० ख। १०. ०मस्य यतो क-खआदर्शावृते । ११. कर्म प्रकृ० ङ। १२. काल-नियति-यदृच्छाईश्वरा-ऽऽत्मवादिनो ख । १३. ०च्छा-नियतीश्वरा-ऽऽत्मवादिनो ग घ ङ च । १४. ०त् कार० क । १५. ०य असा० क । १६. एस जीवे कप्रतेविना । १७. “समियमिति यावज्जीवम्" जै०वि०प० । १८. फंदइ तिप्पड़ कंपइ जीवो जं जं भावं ख, फंदइ तिप्पति जीवो तं तं ग, फंदड घटड तिप्पति जीवो तं तं घ ङ च । १०. नो उणं क ।