________________
४५
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः तापसाश्रममगात् । तत्र च सकलां तापसक्रियां यथोक्तां पालयन्नास्ते । अन्यदा चामावास्यायाः पूर्वेऽह्नि एकेन तापसेनो ष्टम्, यथा-भो भोः तापसाः ! श्वोऽनाकुट्टि विता, तदद्यैव कुश-कुसुम-समित्-कन्द-फल-मूलाद्याहरणं कुरुत इति । एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात ! केयमनाकुट्टिर्नाम? तेनोक्तम्-पुत्र ! लतादीनामच्छेदनं [अनाकुट्टिः, आकुट्टिस्तु छेदनम्,] तद्धि 5 अमावास्यादिके विशिष्टे पर्वदिवसे न वर्तते, सावद्यत्वात् छेदनादिक्रियायाः । श्रुत्वा चैतदसावचिन्तयत्-यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेत् । एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत् । ते च तेनाभिहिता:-किमद्य भवतामनाकुट्टिर्न जाता, येनाटवीं प्रस्थिताः ? तैरभिहितं यथा-अस्माकं यावज्जीवमेवानाकुट्टिः इत्यभि-- 10 धायातिक्रान्ताः साधवः । तस्य च तदाकयेहापोहविमर्शेन जातिस्मरणमुत्पन्नं यथा-अहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति । एवं तेन विशिष्टदिगागमनं स्वमत्या जातिस्मरणरूपया ज्ञातम्, प्रत्येकबुद्धश्च जातः । एवमन्येऽपि वल्कलचीरि-श्रेयांसप्रभृतयोऽत्र योज्या इति ।
परव्याकरणे त्विदमुदाहरणम्-गौतमस्वामिना भगवान् वर्धमानस्वामी 15 पृष्टः-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ? भगवता व्याकृतम्-गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति तद्वशात् । तेनोक्तम्-भगवन् ! एवमेतत्, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः ? ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः-चिर संसिट्ठोऽसि मे गोयमा ! चिरपरिचिओऽसि मे
सकलास्तापसक्रिया यथोक्ता: पा० गङ। २. ०दाऽमा० ग टु। ३. पर्वाहे ए० ख, पूर्वाहणे केनचित् ताप० ग ङ। ४. ०था भोः ता० ख ग । ५. ०ता अतोऽद्यैव समित्कश-कन्द-फलाद्या० ख, ०ता अतोऽद्यैव समित्-कुसुम-कुश-कन्दफल-मूलाद्या० ग ङ । ६. ०न्द-मल-फलाद्या० घ च । ७. ०त । एत० ग ड । ८. एतच्च धर्म० ख च । ९.
द्विरिति ? तेनो० ख ग । १०. पत्र ! कन्दफलादीना० ग । ११. वर्तत इति साव० ख । १२. सर्वथाऽना० च । १३. ०मव्यवसा० क । १४. ०स्याममावा० क । १५. तपोधना० ख ग । १६. ०थेनागच्छ० क । १७. ०र्न सञ्जाता ख ग । १८. तैरप्यभि० ख ग । १९. ०वमना० कप्रत्या विना । २०. ०या विज्ञा० ग च । २१. ०वलं ज्ञा० घ ङ । २२. व्याहृतम् च । २३. ०म्-भो गौ० कपुस्तकाद्विना । २४. ०क्तम्-किंनिमि० ख । २५. ०संसट्ठो० ख ।