________________
४४
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पश्चादुपात्तमपि अन्येषाम् इत्येतत् पदं तावदाचष्टे-अन्येषां वा अतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा जाणगजणपण्णविओ इत्यनेन परव्याकरणमुपात्तम्, तेनायमर्थः-ज्ञायकः तीर्थकृत् तत्प्रज्ञापितश्च जानाति । यद् जानाति तत् स्वत एव दर्शयति सामान्यतो जीवम् इत्यनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा जीवकायांश्च पृथिवीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति ।
__ अत्र च सह सम्मुइए त्ति सूत्रे यत् पदं तत्र जाणण त्ति ज्ञानमुपात्तं भवति, मन ज्ञाने [पा० धा० ११७७] मननं मतिरिति कृत्वा । तच्च किम्भूतमिति
दर्शयति-अवधि-मन:पर्याय-केवल-जातिस्मरणरूपमिति । तत्रावधिज्ञानी 10 सङ्ख्येयानसङ्ख्येयान् वा भवान् जानाति । एवं मनःपर्यायज्ञान्यपि ।
केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरस्तु नियमतः सङ्ख्येयानिति । शेष स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्श्यन्ते, तद्यथा
वसन्तपुरे नगरे जितशत्रू राजा । धारिणी महादेवी । तयोर्धर्मरुच्यभि15 धानः सुतः । स च राजाऽन्यदा. तापसत्वेन प्रव्रजितुमिच्छ्र्धर्मरुचिं राज्ये
स्थापयितु-मुद्यतः । तेन च जननी पृष्टा-किमिति तातो राज्यश्रियं त्यजति ? तयोक्तकिमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गा-ऽपवर्गमार्गार्गलयाऽवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलया ? अतो
विहायैनां सकलसुखसाधकं धर्मं कर्तुमुद्यतः । धर्मरुचि स्तमाकर्योक्तवान्20 यद्येवं किमहं तातस्यानिष्टो येनैवम्भूतां सकलदोषाश्रयिणीं मयि नियोजयति,
सकलकल्याणहेतोर्धर्मात् प्रच्यावयति ? इत्यभिधाय पित्रानुज्ञातस्तेन सह
१. ज्ञापकः कपुस्तक मृते । २. तत्प्रतिज्ञा० ख । ३. नेनाधिकृ० ख । ४. ०थिव्य[ प्? ]काया० क । ५. सम्मइए ग, समुइए घ, सम्मए ङ, समइए च । ६. ०७ च जा० क । ७. मनि ज्ञाने ग, मनं ज्ञाने ङ। ८. ०लज्ञान-जाति० च । ९. ०ङ्ख्येयांश्च भवा० घ ङ च । १०. केवली तु ख ग । ११. ०स्मरणस्तु क-खप्रतिभ्यामृते । १२. च सम्म० ख । १३. राज्यं त्यज० च । १४. ०या इत्यतो ख ग ङ। १५. ०साधनं ग । १६. ०स्तथाक० ग ङ, ०स्तदाक० च । १७. ०श्रयणी ग ङ, ०श्रयणीयां मयि च ।।