________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः
४३ एवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरा-ऽन्यातिशयज्ञानिबोधितानां च ज्ञातं भवति । तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेषामेतदपि ज्ञातं भवति, यथाअस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञान-दर्शनोपयोगलक्षणः उपपादुकः भवान्तरसङ्क्रान्तिभाग् असर्वगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्य-कषाय-योगोपयोग-ज्ञान-दर्शन-चारित्र-वीर्यात्म- 5 भेदाद् अष्टधा । तत्रोपयोगात्मना बाहुल्येनेहाधिकारः । शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् अनुसञ्चरति गतिप्रायोग्यकर्मोपादानाद् अनु पश्चात् सञ्चरति अनुसञ्चरति, पाठान्तरं वा अनुसंसरइ त्ति दिग्-विदिगागमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति सर्वस्या दिशः सर्वस्याश्चानुदिशो य 10 आगतोऽनुसञ्चरति अनुसंस्मरतीति वा सोऽहम् इत्यात्मोल्लेखे । अहंप्रत्ययग्राह्यत्वाद् आत्मनः । अनेन च पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद् दर्शयितुमना गाथात्रितयमाह
जाणइ सयं मतीए अन्नेसि वा वि अंतिए सोच्चा । जाणगजणपन्नविओ जीवं तह जीवकाए य ॥६४॥ संह सम्मुइय त्ति[ य? ] जं पयं सुए तत्थ जाणणा होइ । ओही मणपज्जवणाण केवले जाइसरणे य ॥६५॥ परवइवागरणं पुण जिणवागरणं जिणा परं नत्थि । अन्नेसिं सोउ त्ति य जिणेहिं सव्वो परो अन्नो ॥६६॥
जाण इत्यादि, सहेत्यादि, परेत्यादि । कश्चिदनादिसंसृतौ पर्यटन्न- 20 वध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं
१. ज्ञानं ख । २. ०मेतेषामे० ख, ०मेतदपि ग, ०मेषां तद० च । ३. ज्ञानं ख च । ४. शेषास्तदं० ख । ५. इति । तथा ख । ६. ०दिशाग० ग । ७. ०रतीति अनु० ख । ८.
अंतिये ख । ९. ०णतिजण० ख । १०. एत्थ य सह सम्मुइए त्ति जं पयं तत्थ उप्रति विना, ...सम्मुइयं ति ज... ख ज, ...सहस्समइयाए जं... झ । ११. उवही झ । १२. जायस० झ । १३. सोउं ति य ख ज, सोव( च्च )त्ति य झ, सोच्चं ति य । १४. जाणइ इत्यादि एत्थ चेत्यादि परे० घ ङ च ।