________________
४२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मागधशैल्या प्रथमैकवचनान्तः । स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते । यद् इत्यनेनापि यत् प्राग्निर्दिष्टं दिग्विदिगागमनम्, तथा कोऽहमभूवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यो
वा ? स्त्री पुमान् नपुंसको वा ? को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य 5 देवादिर्भविष्यामि ? इत्येतत् परामृश्यते । जानीयाद् अवगच्छेत् । इदमुक्तं
भवति–न कश्चिदनादौ संसृतौ पर्यटन् असुमान् दिगागमनादिकं जानीयात् । यः पुनर्जानीयात् स एवम्-सह सम्मइए त्ति सहशब्दः सम्बन्धवाची, सद् इति प्रशंसायाम्, मतिः ज्ञानम् । अयमत्र वाक्यार्थ:-आत्मना सह सदा या
सन्मतिर्वर्तते तया सन्मत्या कश्चिज्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्म10 स्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती
समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा सम्मइए त्ति स्वकीयया मत्या स्वमत्येति । तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणम्, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञाना
वरणावृतत्वाद् न सदा विशिष्टोऽवबोध इति । सा पुनः सन्मतिः स्वमतिर्वा 15 अवधि-मनःपर्याय-केवलज्ञान-जातिस्मरणभेदात् चतुविधा ज्ञेया । तत्रावधि
मन:पर्याय-केवलानां स्वरूपमन्यत्र विस्तरेणोक्तम्, जातिस्मरणं त्वाभिनिबोधिकविशेषः । तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्या-ऽऽगती जानाति । कश्चिच्च परः तीर्थकृत् सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्
परत्वम्, तस्य तेन वा व्याकरणम् उपदेशस्तेन जीवांस्तद्भेदांश्च पृथिव्यादीन् 20 तद्गत्या-ऽऽगती च जानाति । अपरः पुनः अन्येषां तीर्थकव्यतिरिक्ताना
मतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति । यच्च जानाति तत् सूत्रावयवेन दर्शयति, तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमाया उत्तरस्या ऊर्द्धदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीति
१. इत्येतेन च घ ङ। २. ०ग्योनिर्मनु० ग घ । ३. वा मृतो मनु० क ग च । ४. ०न्मतः प्र० ग । ५. सम्मुइय त्ति ख, सम्मइय त्ति ग । ६. अत्र वा० ग । ७. ०म्मईए त्ति च, ०म्मइय त्ति ख । ८. ०श्चिच्च परतः परः ख, ०श्चित् परतः तीर्थ० ग । ९. वा गतो वाऽऽगतो वाऽहम० ख । १०. ०तो वाऽह० घ ।