________________
४१
UP
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः किञ्चात्मास्तित्वानभ्युपगमे च
शास्ता शास्त्रं शिष्यः प्रयोजनं वचन-हेतु-दृष्टान्ताः । सन्ति न शून्यं वदतस्तदभावादप्रमाणं स्यात् ॥ [ ] प्रतिषेद्ध-प्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत् सर्वम् । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥ [ ] एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ।
गतमानुषङ्गिकम् । प्रकृतमनुश्रियते, तत्रेह एवमेगेसिं नो नायं भवइ इत्यनेन केषाञ्चिदेव संज्ञानिषेधात् केषाञ्चित् तु भवतीत्युक्तं भवति । तत्र सामान्यसंज्ञायाः प्रतिप्राणिसिद्धत्वात् तत्कारणपरिज्ञानस्य चेहाकिञ्चित्करत्वात्, विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्यास्तु भवान्तरगाम्यात्मस्पष्टप्रतिपादने 10 सोपयोगित्वात् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद् दर्शयितुमाह
[सू० २] से ज्जं पुण जाणेज्जा सह सम्मुइयाए परवागरणेणं अण्णेसिं वा अंतिए सोच्चा, तंजहा-पुरस्थिमातो वा दिसातो आगतो अहमंसि एवं दक्खिणाओ वा 15 पच्चत्थिमाओ वा उत्तराओ वा उड्डाओ वा अहाओ वा अनतरीओ दिसाओ वा अणुदिसाओ वा आगतो अहमंसि, एवमेगेसिं णातं भवति । अत्थि मे आया उववाइए जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति सव्वाओ 20 दिसाओ सव्वाओ अणुदिसाओ सो हं।
से ज्जं पुण जाणेज्ज त्ति सूत्रं यावत् सोऽहमिति । से इति निर्देशो
१. मे-शास्ता ख । २. ०न्यं ब्रुवत० ख ग । ३. ०षेध्यप्र० ग ङ। ४. नो संज्ञा भवति ख । ५. ०ञ्चिद् भव ख । ६. ०नस्येहा० च । ७. ०स्याश्च भ० कपुस्तकमृते । ८. ०णेज्जेति सू० ख ।