________________
2
10
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः सत्यं पिशाचा: स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । यदृच्छया सिद्धयति लोकयात्रा,
भेरी पिशाचा: परिताडयन्ति ॥ [ यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्तीति मयि तालं 5 पतिष्यति, नापि तालस्याभिप्रायः काकोपरि पतिष्यामि, अथ च तत् तथैव भवति । एवमन्यदप्यतकितोपनतमजाकपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् । एवं सर्वं जाति-जरा-मरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति । एवं नियति-स्वभावेश्वरा-ऽऽत्मभिरप्यात्मा निराकर्तव्यः ।
___ तथा अज्ञानिकानां सप्तषष्टिभेदाः, ते चामी-जीवादयो नव पदार्थाः, उत्पत्तिश्च दशमी, सद् १ असत् २ सदसद् ३ अवक्तव्यः ४ सदवक्तव्यः ५ असदवक्तव्यः ६ सदसदवक्तव्यः ७ इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति । भावना चेयम्-सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन ? असन् जीव इति को जानाति ? किं वा तेन ज्ञातेन ? इत्यादि । 15 एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः । नव सप्तकास्त्रिषष्टिः । अमी चान्ये चत्वास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वा तया ज्ञातया ? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वा तया ज्ञातया ? इति । शेषविकल्पवयं तूत्पत्त्युत्तरकालं पदार्थावयवा पेक्षमतोऽत्र न सम्भवतीति नोक्तम् । एतच्चतुष्टयप्रक्षेपात् सप्तषष्टिर्भवति । तत्र सन् जीव इति 20 को वेत्ति ? इत्यस्यायमर्थः-न कस्यचिद् विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान्
१-२. भेरि ख ग । ३. परिवादयन्ति घ ङ च । ४. ०रस्ति मयि ख, ०रस्ति नापि तालं पित्सति, नापि तालस्या० ग । ५. ति ममोपरि तालं च ।६. ०पगमजा० ड "आतुर इति कुट्टि(ष्टि?)नो गरलमिश्रोदकपानं प्रगुणतावत्" जै०वि०प० । ८. “अन्धकण्टक इति मृत्युपातप्रविष्टाक्षिकण्टकाकर्षणेन पटलनिर्गमवत्" जै०वि०प० । ९. ०दि लोके क । १०. ०ष्टिर्भेदाः ग घ ङ। ११. दा भवन्ति ते चा० ख ङ। १२. ०व्यः एतैः क च । १३. जीव: को वेत्ति ? किं वा ग । १४. ०तीति सद० घ ङ च । १५. वा ज्ञात० क घ ङ, वाऽनया ज्ञा० ग च । १६. ०पेक्ष्यम० च । १७. सज्जीव क । १८. ०शिष्टज्ञा० ख च ।