________________
३८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तथा पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् [ ] इत्यादि । एवमस्त्यजीव: स्वतो नित्य: कालत इत्येवं सर्वत्र योज्यम् ।।
___ तथा अक्रियावादिनः नास्तित्ववादिनः, तेषामपि जीवा-ऽजीवा-ऽऽ श्रवबन्ध-संवर-निर्जरा-मोक्षाख्याः सप्त पदार्थाः स्व-परभेदद्वयेन तथा कालयदृच्छा-नियति-स्वभावेश्वरा-ऽऽत्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्ति जीवः स्वतः कालतः, नास्ति जीवः परतः कालतः इति कालेन द्वौ लब्धौ । एवं यदृच्छादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः । सर्वे जीवपदार्थे द्वादश भवन्ति । एवमजीवादिष्वपि प्रत्येकं द्वादशैव । सप्त
द्वादशकाश्चतुरशीतिः ८४। अयमत्रार्थ:-नास्ति जीवः स्वतः कालत इति । इह 10 पदार्थानां लक्षणेन सत्ता निश्चीयते, कार्यतो वा । न चात्मनस्तादृगस्ति किञ्चिल्लक्षणं
येन सत्ता प्रतिपद्येमहि, नापि कार्यमणूनामिव महीध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां नाधिगम्यते वस्तु तद् नास्त्येवं यथा वियदिन्दीवरम् । तस्माद् नास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभति गगनारविन्दादिकं
तत् परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात् सर्वा15 ग्भिागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तं च
यावद् दृश्यं परस्तावद् भागः स च न दृश्यते । [ ]
इत्यादि । तथा यदृच्छातोऽपि नास्तित्वमात्मनः । का पुनर्यदृच्छा ? अनभिसन्धिपूर्विका अर्थप्राप्तिर्यदृच्छा, 20 अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुख-दुःखजातम् ।
काकस्य तालेन यथाभिघातो, न बुद्धिपूर्वोऽत्र वृथाभिमानः ॥ [ ]
१. ०त एवं स० ख । २. इत्येतत् स० घ । ३. ०च्छानियत्यादि० ग ङ । ४. सर्वेऽपि जी० ग घ ङ । ५. ०शैते । सप्त ख घ, ०शैव । ते सप्त ङ। ६. ०शीतिरिति ८४ ख ग । ७. ०तः । इह घ ङ । ८. प्रपद्ये० ख । ९. ०व महामहीध्रा० घ ङ । १०. महीरन्ध्रादि च । ११. नाभिग० ग । १२. ०व वियदिन्दीवरवत । तस्मा० ख ग । १३. ०कल्पेऽपि घ ङ। १४. ०नं विनक्ति ग० च । १५. परं ताव० च । १६. इत्यादि इति चप्रतौ नास्ति ।