SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ:, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ [ ] इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव 5 संसारव्यवस्थामभ्युपयन्ति । कः पुनरयं स्वभावः ? वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च—– कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥ [ ] स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति ॥ [ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान् ! कश्चोत्पलेषु दलसन्निचयं करोति, को वा करोति विनयं कुलजेषु पुंसु ॥ [ यत उक्तम्– ३७ ] ] तथाऽन्येऽभिदधते—सर्वमेतज्जीवादि ईश्वरात् प्रवृत्तं तस्मादेव स्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः ? अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ [ अज्ञो जन्तुरनीशः स्यादात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥ [ ] तथाऽन्ये ब्रुवते - न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, 20 किं तर्हि ? आत्मनः, कः पुनरयमात्मा ? आत्माद्वैतवादिनां विश्वपरिणतिरूपः, 10 ] १. ०णी । अपरे क । २. प्रायः । अप० च । ३. ०वः । कः कण्ट० ख । ४. वा दधाति ख ग । ५. समस्तमेत० ख ग । ६. प्रसूतम् ख ग घ । ७. अन्यो घ ङ च । ८. ०त् स्वर्गं वा श्वभ्रमेव वा ख । ९. ०पः, उक्तं च- एक ख, ०प आत्मा, उक्तं च-एक ग ङ । १०. ०त्मा भूते भूते व्य० ख घ ङ । 15
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy