SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३६ 10 शीलाचार्यविचितविवरणविभूषित आचाराङ्गसूत्रे लब्धाः । एवं नियति-स्वभावेश्वरा-ऽऽत्मभिरप्येकै केन चत्वारो विकल्पा लभ्यन्ते । एते च पञ्च चतुष्कका विंशतिर्भवति । इयं च जीवपदार्थेन लब्धा । एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति । ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८०। तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया हस्वत्व-दीर्घत्वे इव, नित्यः शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च कालः पचति भूतानि कालः संहरते प्रजाः । काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ [ ] स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्ण-वर्षाव्यवस्थाहेतुः क्षण-लव-मुहूर्त-यामा-ऽहोरात्र-पक्ष-मासर्वयन-संवत्सर-युग-कल्प-पल्योपम-सागरोपमा-ऽवसपिण्युत्सपिणी-पुद्गलपरावर्ता-ऽतीता-ऽनागत-वर्तमानसद्धिाव्यवहाररूपः । द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयम्, किन्त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् । तृतीयविकल्पे तु परत 15 एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ? नन्वेतत् प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदः, यथादीर्घत्वापेक्षया हुस्वत्वपरिच्छेदो हुस्वत्वापेक्षया च दीर्घत्वस्येति । एवमेव चानात्मनः स्तम्भ-कुम्भादीन् समीक्ष्य तद्व्यतिरिक्त वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत् परत एवावधार्यते, न स्वत इति । 20 तुर्यविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः । तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिः इति ? उच्यते-पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजकक/ नियतिः, उक्तं च १. ०ते पञ्च ग । २. चातुष्क० घ । ३. ०दाः । तत० ग टु। ४. ०ति तत्र स्वेनैव स्वरूप० ख ।, पररूपव्यपेक्ष० क । ६. ०पमोत्सर्पिण्यवसर्पिणी-प० ख ग । ७. ०द्धादिव्यव० च छ। ८. ०त्वमात्मनोऽभ्यु० घ ङ। ९. ०रिक्तवस्तु० ख । १०. स्वतः । तुर्य० क च । ११. चतुर्थविकल्पेऽपि ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy