________________
३५
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः नाप्यर्थापत्त्या । तदेवं प्रमाणपञ्चकातीतत्वात् षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायाम्-नास्त्यात्मा प्रमाणपञ्चकविषयातीतत्वात् खरविषाणवत्, तदभावे च विशिष्टसंज्ञाप्रतिषेधासम्भवेनानुत्थानमेव सूत्रस्येति । एतत् सर्वमनुपासितगुरोर्वचः, तथाहि-प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, संविन्निष्ठा हि विषयव्यवस्थितयः, घट-पटादीनामपि रूपादिगुणप्रत्यक्ष- 5 त्वादेवाध्यक्षत्वमिति । मरणाभावप्रसङ्गाच्च न भूतगुणश्चैतन्यमाशङ्कनीयम्, तेषां सदा सन्निधानसम्भवत इति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवति, एवमनयैव दिशोपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यम्, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेण 'अहम्' इति चात्मोल्लेखेनाऽऽत्मसद्भावः प्रतिपादितः, शेषागमानां चानाप्तप्रणीतत्वाद- 10 प्रामाण्यमेवेति । अत्र च अस्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदाः नास्तीत्यनेन चाक्रियावादिन एतदन्त:पातित्वाच्चाज्ञानिका वैनयिकाश्च सप्रभेदा उपक्षिप्ताः, ते चामी
असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ [
]
तत्र जीवा-ऽजीवा-ऽऽश्रव-बन्ध-पुण्य-पाप-संवर-निर्जरा-मोक्षाख्या नव पदार्थाः स्व-परभेदाभ्यां नित्या-ऽनित्यविकल्पद्वयेन च काल-नियतिस्वभावेश्वरा-ऽऽत्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते । इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १, अस्ति जीवः स्वतोऽनित्यः कालतः २, अस्ति जीवः परतो नित्यः 20 कालतः ३, अस्ति जीवः परतोऽनित्यः कालतः ४। एवं कालेन चत्वारो भेदा
१. ०वदिति, तद० ख ग । २. ०धाभावसम्भ० ग घ ङ च । ३. ०ष्ठाश्च वि० ख ग च । ४. ०म्भवादिति कप्रतिमृते । ५. ०वतीति कप्रतेविना । ६. ०पि स्वविष० क घ ङ च । ७. ०या यथा० ख ग । ८. नीन्द्राणामनेनै० क । ९. नैव विशि० ख । १०. चागमोल्ले० क । ११. ०दा आक्षिप्ता: ख । १२. ०न्ते । अस्ति जी० ख । १३. ०तः इत्येवं ख ग ङ। १४. ०न चत्वारश्चत्वारो ग ।