________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०१ ( ३ ) ] अत्थि मे आया ओववाइए, नत्थि मे आया उववाइए, कोऽहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ? त्ति ।
३४
अस्ति विद्यते, मम इत्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य 5 शरीरस्याधिष्ठाता अतति गच्छति सततगतिप्रवृत्त आत्मा जीवोऽस्तीति, किम्भूतः ? औपपातिकः उपपातः प्रादुर्भावो जन्मान्तरसङ्क्रान्ति:, उपपाते भव औपपातिक इत्यनेन संसारिणः स्वरूपं दर्शयति । स एवम्भूत आत्मा ममास्ति नास्तीति चैवम्भूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसां न जायत इति । तथा कोऽहं नारकतिर्यङ्-मनुष्यादिरासं पूर्वजन्मनि ? को वा इतः मनुष्यादेर्जन्मनः च्युतः विनष्टः 10 इह संसारे प्रेत्य जन्मान्तरे भविष्यामि उत्पत्स्ये ? इत्येषा च संज्ञा न भवतीति । इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च तथापि पूर्वसूत्रे साक्षात् प्रज्ञापकदिगुपात्ता, अत्र तु भावदिगित्यवगन्तव्यम् ।
७
ननु चात्र संसारिणां दिग्-विदिगागमनादिका विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिण्यात्मनि सिद्धे सति भवति, 'सति धर्मिणि 15 धर्माश्चिन्त्यन्ते' [ ] इति वचनात् । स च प्रत्यक्षादिप्रमाणागोचरत्वाद् दुरुपपादः, तथाहि - नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वात्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वात् । अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवाद् नाप्यनुमानेन । तस्याप्रत्यक्षत्वे तैंत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन । आगमस्यापि विवक्षायां प्रतिपाद्य20 मानायामनुमानान्तर्भावाद् अन्यत्र च बाह्येऽर्थे सम्बन्धाभावाद् अप्रमाणत्वम्, प्रमाणत्वे वा परस्परविरोधित्वाद् नाप्यागमेन । तदन्तरेणापि सकलार्थोपपत्तेः
१. ०रं दर्शयति क । २. ० पातैर्भव क । ३. ०ति । एव० ख । ४. ०ष्यादिः पूर्वजन्मन्यासम् ? को वा ख ग । ५. वा देवादिरितो मनु० ख ग च - ० दिरतो मनु० घ ङ । ६. ०न्मत: ग घ ङ । ७. इह च सं० घ ङ । ८. उत्पत्स्यामि ? इत्ये० ख । ९. ०पका दि० गङ ०पकादिका दि० ख घ च । १०. ० माणगोचरातीतत्वाद् ख ग घ ङ । ११. ०ङ्गग्रहणा० ख । १२. ०न्धसम्यग्ग्रहणा० घ ङ । १३. तत्समानग्रह० ख । १४. ०त्र बा० ख ।