________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे भावदिग्निरूपणायाहमणुया तिरिया काया तहग्गबीया चउक्कगा चउरो । देवा नेरइया या अट्ठारस होति भावदिसा ॥६०॥
मणुया इत्यादि । मनुष्याश्चतुर्भेदाः तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चः द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया: पञ्चेन्द्रियाश्चेति चतुर्धा, कायाः पृथिव्यप्-तेजो-वायवश्चत्वारः, तथाऽग्र-मूलस्कन्ध-पर्वबीजाश्चत्वार एव । एते षोडश देव-नारकप्रक्षेपाद् अष्टादश । एभिर्भावैर्भवनाद् जीवो व्यपदिश्यत इति भावदिगष्टादशविधेति ।
__अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती 10 स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत् साक्षाद्दर्शयति,
भावदिक् चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इति अत आह
पन्नवगदिसट्ठारस भावदिसाओ वि तत्तिया चेव । एक्कक्कं विधिज्जा भवंति अट्ठारसऽट्ठारा ॥६१॥ पन्नवगदिसाए पुण अहिगारो एत्थ होइ कायव्यो । जीवाण पोग्गलाण य एयासु गयागई अत्थि ॥६२॥
पन्नवंगेत्यादि । पन्नवगदिसाए इत्यादि । प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं सम्भवन्तीत्यत एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विध्येत् ताडयेत्, ततोऽष्टादशाऽष्टादशकाः, ते च सङ्ख्यया त्रीणि शतानि चतुर्विशत्यधिकानि भवन्तीति । एतोच्चोपलक्षणम्, तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशस्तु चतसृष्वेव महादिक्षु
१. ०णार्थमाह ख ग । २. तिदिया छ. इंदिय ज । ३. ०या अग्गा बी० ख छ ठ, या अग्ग बी० ज. ०या तउ अग्गबी० झ। ४. ०इआ वा ख। ५. होइ छ, हंति झ ठ। ६. ०र्छजा: ख । ७. ०पकाश्चेति ख। ८. ०र: । एते ग घ ङ। ७. ०शभेदेति ख ग च । १०. इत्याह ख। ११. य ज । १२.०वग इत्यादि ख । १३.०पनाप० घ। १४. विन्ध्यात् ख ग १५. ०येद्, अतो० ख । १६. सन्तीति घ च । १७. दिशि तु च० खपुस्तकाते ।