________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः नाममित्यादि । नाम-स्थापना-द्रव्य-क्षेत्र-ताप-प्रज्ञापक-भावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः । तत्र सचित्तादेव्यस्य दिगित्यभिधानं नामदिक् । चित्रलिखितजम्बूद्वीपादेदिग्विभागस्थापनं स्थापनादिक् । द्रव्यदिग्निक्षेपार्थमाहतेरसपएसियं खलु तावइएसुं भवे पएसेसुं ।
. 5 जं दव्वं ओगाढं जहन्नगं तं दसदिसागं ॥४१॥
तेरसेत्यादि । द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च । आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रादेशिकं द्रव्यमाश्रित्य या प्रवृत्ता । खलुवधारणे, त्रयोदशप्रादेशिकमेव दिक्, न तु दशप्रादेशिकं यत् कैश्चिदुक्तमिति । प्रदेशाः परमाणवस्तैर्निष्पादितं कार्यद्रव्यं 10 तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना- त्रिबाहुकं नवप्रदेशिक - मभिलिख्य चतसृषु
दिक्ष्वेकै कगृहवृद्धिः कार्या । क्षेत्रदिशमाह
अट्ठपएसो रुयगो तिरियंलोयस्स मज्झयारम्मि । एस पभवो दिसाणं ऐसेव भवे अणुदिसाणं ॥४२॥
अद्वेत्यादि । तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तौं सर्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थानाः, अधस्तनस्यापि चत्वारस्तथाभूता एव इत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिसामनुदिशां च प्रभव उत्पत्तिस्थानम् । अभिधानान्याह
इंदग्गेई जम्मा य नेई वारुणी य वायव्वा । सोमा ईसाणा वि य विमला य तमा य बोद्धव्वा ॥४३॥
20
१. ०धा निक्षे० क । २. द्रव्यनिक्षे० क । ३. तूगाढं छ । ४. ०सामं ञ । ५. द्विधा च । ६-७. ०शप्रदे० ग घ ङ च । ८. न पुनर्दश० कप्रतेविना । ९. ०शप्रदे० ख घ ङ। १०. ०ति । स्थाप० घ । ११. एसो य भवे झ । १२. ०मध्ये दे० च । १३. ०शे सर्वतो द्वौ क्षुल्ल० ख । १४. ०दग्गीई ज झ, ०दग्गी यी ज । १५. बोधव्वा कप्रति विना ।