SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्यादिका ज्ञानावरणक्षयोपशमाद् मोहोदयाच्च भवति । धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाद् जायते । एताश्चाविशेषोपादानात् पञ्चेन्द्रियाणां सम्यग्मिथ्यादृशां द्रष्टव्याः । ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लीविताना5 ऽऽरोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञान संज्ञयाऽधिकारः, यतः सूत्रे सैव निषिद्धा, इह एकेषां नो संज्ञा ज्ञानम् अवबोधो भवतीति ॥३९॥ प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् [सू०१ (२)] तंजहा-पुरत्थिमातो वा दिसातो आगतो अहमंसि, दाहिणाओ वा दिसाओ आगतो अहमंसि, 10 पच्चत्थिमातो वा दिसातो आगतो अहमंसि, उत्तरातो वा दिसातो आगतो अहमंसि, उड्डातो वा दिसातो आगतो अहमंसि, अधेदिसातो वा आगतो अहमंसि, अन्नतरीतो दिसातो वा अणुदिसातो वा आगतो अहमंसि, एवमेगेसिं णो णातं भवति । 15 तंजहेत्यादि णो णायं भवतीति यावत् । तद्यथा इति प्रतिज्ञातार्थो दाहरणम् । पुरत्थिमाउ त्ति प्राकृतशैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमाशब्दात् पञ्चम्यन्तात् तसा निर्देशः । वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः । यथा लोके भोक्तव्यं वा शयितव्यं वेति एवं पूर्वस्या वा दक्षिणस्या वेति । दिशतीति दिक्, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं 20 वेति भावः । तां नियुक्तिकृद् निक्षेप्तुमाह णामं ठवणा दविए खेत्ते तावे य पन्नवग भावे । एस दिसाणिक्खेवो सत्तविहो होइ नायव्वो ॥४०॥ १. इत्येवमादिका ग ङ । २. ०रणीयक्षयो० ख, ०रणीयाल्पक्षयो० घ ङ । ३. सम्यग्दृशां मिथ्यादृशां च द्र० ग च । ४. ०ज्ञा अव्य० ख । ५. वल्लिवि० ग । ६.०दिरूपा घ ङ। ७. ०धानात् क ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy