________________
प्रथमे श्रुतम्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः
२५ इति । एवमिहापि न सर्वसंज्ञानिषेधः, अपि तु विशिष्टसंज्ञानिषेधः, ययाऽऽत्मादिपदार्थस्वरूपं गत्या-ऽऽगत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत् सूत्रावयवनिक्षेपार्थमाह
दव्वे सच्चित्ताई भावे अणुभवण जाणणा सन्ना । मइ होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता ॥३८॥ 5
दव्वे इत्यादि । संज्ञा नामादिभेदात् चतुर्धा । नाम-स्थापने क्षुण्णे । ज्ञशरीर-भव्यशरीर-तव्यतिरिक्ता सचित्ता-ऽचित्त-मिश्रभेदात् त्रिधा । सचित्तेन हस्तादिद्रव्येण पान-भोजनादिसंज्ञा, अचित्तेन ध्वजादिना, मिश्रेण प्रदीपादिना । संज्ञानं संज्ञाऽवगम इति कृत्वा । भावसंज्ञा पुनद्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च । तत्राल्पव्याख्येयत्वात् तावद् ज्ञानसंज्ञां दर्शयति-मइ होइ जाणणा पुण त्ति मननं 10 मतिः अवबोधः । सा च मतिज्ञानादिपञ्चधा । तत्र केवलसंज्ञा क्षायिकी, शेषास्तु क्षायोपशमिक्यः । अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते । सा च पोडशभेदेति दर्शयति
आहार भय परिग्गह मेहुण सुह दुक्ख मोह वितिगिच्छा। कोह मण माय लोभे सोगे लोगे य धम्मोघे ॥३९॥ 15
आहारेत्यादि । आहाराभिलाष आहारसंज्ञा । सा च तैजसशरीरनामकर्मोदयादसातोदयाच्च भवति । भयसंज्ञा त्रासरूपा । परिग्रहसंज्ञा मूर्छारूपा । मैथुनसंज्ञा स्त्र्यादिवेदोदयरूपा । एताश्च मोहनीयोदयात् । सुख-दुःखसंज्ञे साताऽसातानुभवरूपे वेदनीयोदयजे । मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात् । विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयाद् ज्ञानावरणीयोदयाच्च । क्रोधसंज्ञा 20 अप्रीतिरूपा । मानसंज्ञा गर्वरूपा । मायासंज्ञा वक्रतारूपा । लोभसंज्ञा गृद्धिरूपा। शोक संज्ञा विप्रलाप-वैमनस्यरूपा । एता मोहोदयजाः । लोक संज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः,
१. ०व्यति० कप्रतविना । २. त्वाद् ज्ञान० ख । 3. ०नादिः प० ख ग । ४. ०वसंजा क ख ग । ५. आधार छ । ६. कोह माण माया लोभे क झ । ७. धम्मोहे कप्रतिमते। ८. वक्ररूपा ख ।